शब्दकल्पद्रुमः
माघी || स्त्री (मघया युक्तः कालः अस्यां इति । मघा + “नक्षत्रेण युक्तः कालः ।” ४ । २ । ३ । इत्यण् ङीप् ।)
मघायुक्ता पौर्णमासी । यथा, “पुष्ययुक्ता पौर्णमासी पौषी मासे तु यत्र सा । नाम्ना स पौषो माघाद्याश्चैवमेकादशापरे ॥” इत्यमरः । १ । ४ । १३ ॥ माधी पूर्णिमा । यथा, अयोध्याकाण्डे भरतशपथे । “आषाढी कार्त्तिकी माघी तिथयः पुण्य- सम्भवाः । अप्रदानवतो यान्तु यस्यार्य्योऽनुमतो गतः ॥” विष्णुधर्म्मोत्तरे । “पौर्णमासी तथा माघी श्रावणी च नरो- त्तम ! । प्रौष्ठपद्यामतीतायां तथा कृष्णा त्रयोदशी ॥ एतांस्तु श्राद्धकालान् वै नित्यानाह प्रजा- पतिः ॥” सा च कलियुगाद्या । यथा, —
“अथ भाद्रपदे कृष्णे त्रयोदश्यान्तु द्बापरम् । माघे च पौर्णमास्यां वै घोरं कलियुगं स्मृतम् ॥” अस्यां कर्म्मणोऽनन्तफल यथा, मात्स्ये । “शतमिन्दुक्षये पुण्यं सहस्रन्तु दिनक्षये । विषुवे शतसाहस्रमा का मा वैष्वनन्तकम् ॥” आ का मा वैषु आषाढीकार्त्तिकीमाघीवैशा- खीषु । इति तिथ्यादितत्त्वम् ॥ माघ्यां मघा- योगाभावे सिंहस्थगुरावकालप्रतिप्रसवो यथा, शातातपः । “माघ्यां वदि मघा नास्ति सिंहे गुरुरकार- णम् ॥” राजमार्त्तण्ड दक्षः । “गुरौ हरिस्थे न विवाहमाहु- र्हारीतगर्गप्रमुखा मुनीन्द्राः । यदा न माघी मघसंयुता स्यात्- तदा च कन्योद्वहनं वदन्ति ॥” इत्थञ्च माघ्यां मघायोगाभावेऽपि श्रुतिवेधादि- मघास्थेऽपि गुरौ भवति विवाहस्तु गुरोर्मघा- परित्यागादेव । इति मलमासतत्त्वम् ॥