शब्दकल्पद्रुमः
माघोनी || स्त्री (मघवान् देवताऽस्याः । मघोन इयमिति वा । इति मघवन् + अण् ङीप् ।)
पूर्ब्बा दिक् । इति राजनिर्घण्टः ॥ (इन्द्रसम्ब- न्धिनि, त्रि । यथा, ऋग्वेदे । १० । ६६ । २ । “मरुद्गणे वृजने मन्म धीमहि माघोने यज्ञं जनयन्त सूरयः ॥” “माघोने मघवत इन्द्रस्य सम्बन्धिनि मरुद्गणे ।” इति तद्भाष्ये सायनः ॥)