संस्कृत-शब्दकोशः

माणिका माणिक्या

माणिक्य

वाचस्पत्यम्

माणिक्य ||‍ न० मणिरिव कायति कै—क स्वार्थे ष्यञ् । (माणिक) १ रक्तवर्णे रत्नभेदे, २ गृहगोधिकायां स्त्री हेमच० ।


शब्दकल्पद्रुमः

माणिक्यं || क्ली (मणिप्रकारः । मणि “+ स्थूलादिभ्यः प्रकारवचने कन् ।” ५ । ४ । ३ । इति प्रशं- सायां कन् । ततो मणिकमेवेति । मणिक + “चातुर्वर्णादीनामुपसंख्यानम् ।” ५ । १ । १२४ । इति वार्त्तिकबलात् ष्यञ् ।)
रत्नविशेषः । माणिक् इति भाषा । तत्पर्य्यायः । शोण- रत्नम् २ रत्नराट् ३ रविरत्नकम् ४ शृङ्गारी ५ रङ्गमाणिक्यम् ६ तरुणम् ७ रत्ननामकम् ८ रागयुक् ९ पद्मरागः १० रत्नम् ११ शोणो- पलः १२ सौगन्धिकम् १३ लोहितकम् १४ कुरुबिन्दम् १५ । अस्य गुणाः । मधुरत्वम् । स्निग्धत्वम् । वातपित्तनाशित्वम् । रत्नप्रयोगे प्रधानत्वम् । परं रसायनकारित्वञ्च । तस्य लक्षणं यथा, —
“स्निग्धं गुरुगात्रयुतं दीप्तं स्वच्छं समाङ्गञ्च सुरङ्गदञ्च ॥” इति जात्यमाणिक्यं कल्याणं धारणात् कुरुते ॥ तस्य दोषो यथा, —
“द्बिच्छायमभ्रपिहितं कर्कशं शार्करिलं भिन्नं धूम्रञ्च । विरूपं रागविमलं लघुमाणिक्यं न धारये- द्धीमान् ॥” तस्य चतुर्विधा जातिर्यथा । “तद्रक्तं यदि पद्मरागमथ तत्पीतातिरक्तं द्विधा । जानीयात् कुरुबिन्दकं यदरुणं स्यादेषु सौग- न्धिकम् । तन्नीलं यदि नीलगन्धिकमिति ज्ञेयं चतुर्धा बुधैः माणिक्यं कषघर्षणेऽप्यविकलं रागेण जात्यं जगुः ॥ इति राजनिर्घण्टः ॥ * ॥
मतान्तरे तस्य दोषा यथा, —
“माणिक्यस्य समाख्याता अष्टौ दोषा मुनीश्वरैः द्बिच्छायञ्च द्विरूपञ्च सम्भेदः कर्करन्तथा ॥ अशोभनं कोकिलञ्च जलं धूम्राभिधञ्च वै । गुणाश्चत्वार आख्याताश्छायाः षोडश कीर्त्तिताः ॥” छायास्तु पूर्ब्बोक्ता एव तास्तु पद्मरागशब्दे द्रष्टव्याः । “छायाद्वितयसम्बन्धाद्द्विच्छायं बन्धुनाशनम् । द्बिरूपं द्बिपदं तेन माणिक्येन पराभवः ॥ सम्मेदो भिन्नमित्युक्तं शस्त्रघातविधायकम् । कर्करं कर्करायुक्तं पशुबन्धुविनाशकृत् ॥ दुग्धेनेव समालिप्तमघनीपुटमुच्यते । अशोभनं समुद्दिष्टं माणिक्यं बहुदुःखकृत् ॥ मधुबिन्दुसमच्छायं कोकिलं परिकीर्त्तितम् । आयुर्लक्ष्मीयशो हन्ति सदोषं तन्न धारयेत् ॥ रागहीनं जलं प्रोक्तं धनधान्यापवादकृत् । धूम्रं धूमसमाकारं वैद्यतं भयमावहेत् ॥” तथा । “शोभाद्वितयवन्तो ये मणयः क्षतिकारकाः । उभयत्र पदं येषां तेन च स्यात् पराभवः ॥ भिन्नेन युद्धे मृत्युः स्यात् कर्करन्धननाशकृत् । दुग्धेनेव समालिप्तः पुटके यस्तु सम्भवेत् ॥ दुःखकृत् स समाख्यातो न नृपै रक्षणीयकः । भधुबिन्दुसमा शोभा कोकिलानां प्रकीर्त्तिता । तेषाञ्च बहुभेदाः स्युर्न ते धार्य्याः कदाचन ॥” अथ गुणाः । “गुरुत्वं स्निग्धता चैव वैमल्यमतिरक्तता ।” तथा च । “वर्णाधिकं गुरुत्वञ्च स्निग्धता च तथाच्छता । अर्च्चिष्मत्ता महत्ता च मणीनां गुणसंग्रहः ॥” फलम् । “ये कर्कराश्छिद्रमयोऽपदिग्धाः प्रभाविमुक्ताः परुषा विवर्णाः । न ते प्रशस्ता मणयो भवन्ति समासतो जातिगुणैः समस्तैः ॥ दोषोपसृष्टं मणिमप्रबोधाद् बिभर्त्ति यः कश्चन कञ्चिदेकम् । तं बन्धुदुःखामयबन्धुवित्त- नाशादयो दोषगणा भजन्ते ॥ सपत्नमध्येऽपि कृताधिवासं प्रमादवृत्तावपि वर्त्तमानम् । न पद्मरागस्य महागुणस्य भर्त्तारमापत् समुपैति काचित् ॥ दोषोपसर्गप्रभवाश्च ये ते नोपद्रवास्तं समभिद्रवन्ति । गुणैः समुख्यैः सकलैरुपेतं यः पद्मरागं प्रयतो बिभर्त्ति ॥ बालार्ककरसंस्पर्शात् यः शिखां लोहितां वमेत् । रञ्जयेदाश्रमं वापि स महागुण उच्यते ॥ दुग्धे शतगुणे क्षिप्तो रञ्जयेद्यः समन्ततः । वमेच्छिखां लोहितां वा पद्मरागः स उत्तमः ॥ अन्धकारे महाघोरे यो न्यस्तः सन् महामणिः । प्रकाशयति सूर्य्याभः स श्रेष्ठः पद्मरागकः ॥ पद्मकोषे तु यो न्यस्तो विकाशयति तत्क्षणात् । पद्मरागवरो ह्येष देवानामपि दुर्लभः ॥ सर्व्वरिष्टप्रशमनाः सर्व्वसम्पत्तिदायकाः । चत्वारस्तु मयोद्दिष्टा गुणिनश्च यथोत्तरम् ॥ यो मणिर्दृश्यते दूराज्ज्वलदग्निसमच्छविः । वंशकान्तिः स विज्ञेयः सर्व्वसम्पत्तिदायकः ॥ पञ्चसप्तनवविंशतिरागः सम्बृतोऽपि सकलः खलु वस्त्रे । वर्जयेद्बमति वा करजालं उत्तरोत्तरमहागुणिनस्ते ॥ नीलीरसं दुग्धरसं जलं वा ये रञ्जयन्ति द्बिशतप्रमाणम् । ते ते यथापूर्ब्बमतिप्रशस्ताः सौभाग्यसम्पत्तिविधानदायकाः ॥ गुञ्जाफलप्रमाणस्तु दशसप्तत्रिगुञ्जकान् । पद्मरागस्तुलयति यथापूर्व्वं महागुणः ॥ क्रोष्टुकोलफलाकारो द्वादशाष्टाब्धिगुञ्जकान् । पद्मरागस्तुलयति यथापूर्ब्बं महागुणः ॥ वदरीफलतुल्यो यः स्वरदिग्वसुमासकः । तथा धात्रीफलत्रिंशत्विंशतिद्व्यष्टमासकः ॥ तथाक्षफलतुल्यो यो वह्निपक्षैकमासकः । ताम्बूलफलमानो यश्चतुस्त्रिद्विकतोलकः । विम्बीफलसमाकारो वसुषड्दशतोलकः ॥ अतःपरं प्रमाणेन मानेन च न लभ्यते । यदि लभ्येत पुण्येन तदा सिद्धिमवाप्नुयात् ॥ केचिच्चारतराः सन्ति जात्यानां प्रतिरूपकाः । विजातयः प्रयत्नेन सिद्धास्ता मूल्यमाहरेत् ॥ काङ्कलकाः सिंहलदेशोत्थमुक्तमालीयाः । श्रीपर्णिकाश्च सदृशा विजातयः पद्मरागाणाम् ॥ तुषोपसङ्गाद्दलनाभिधानं मणिः स्वभावादपि तुम्बुरूत्थः । कार्ष्णात्तथा सिंहलदेशजातं मुक्ताभिधानं नभसः स्वभावात् । श्रीपर्णकं दीप्तिनिराकृतित्वा- द्विजातिलिङ्गाश्रयभेद एषः ॥ * ॥
” तथा च । “स्नेहप्रदेहो मृदुता लघुत्वं विजातिलिङ्गं खलु सार्व्वजन्यम् । यः श्यामिकां पुष्यति पद्मरागो यो वा तुषाणामिव चूर्णमध्यः ॥ स्नेहप्रदिग्धो न च यो विभाति यो वा प्रमृज्यः प्रजहाति दीप्तिम् । आक्रान्तमूर्द्धा च तथाङ्गुलिभ्यां यः कालिकां पार्श्वगतां बिभर्त्ति ॥ संप्राप्य तार्क्ष्योऽपि कथं स्ववृत्तं बिभर्त्ति यः सर्व्वगुणानतीव । तुल्यप्रमाणस्य च तुल्यजाते- र्यो वा गुरुत्वेन भवेन्न तुल्यः । प्राप्यापि नानाकरदेशजातं ज्ञात्वा बुधो जातिगुणेन लक्षेत् ॥ अप्रणश्यति सन्देहे शिलायां परिघर्षयेत् । घृष्ट्वा योऽत्यन्तशोभावान् परिमाणं न मुञ्चति ॥ स ज्ञेयः शुद्धजातिस्तु ज्ञेयाश्चान्ये विजातयः । स्वजातकं संमुखेन विलिखेद्बा परस्पपरम् ॥ वज्रं वा कुरुबिन्दं वा विमुच्यान्योन्यकेन चेत् । न शक्यं लेखनं कर्त्तुं पद्मरागेन्द्रनीलयोः ॥ गुणोपपन्नेन सहावबन्धो मणिस्त्वजात्यो विगुणेन जातः । सुखं न कुर्य्यादपि कौस्तुभेन विद्वान् विजातिं न भृयाद्बुधस्तम् ॥ चण्डाल एकोऽपि तथाभिजातान् समेत्य दूरानपहन्ति यत्नात् । तथा मणीन् भूरिगुणोपपन्नान् शक्तोऽतिविद्रावयितुं विजातः ॥” * ॥
अथ मूल्यम् । “बालार्काभिमुखं कृत्वा दर्पणे धारयेन्मणिम् । तत्र कान्तिविभागेन च्छायाभागं विनिर्द्दिशेत् ॥ वज्रस्य यत्तण्डुलसंख्ययोक्तं मूल्यं समुन्मापितगौरवस्य । तत् पद्मरागस्य गुणान्वितस्य स्यान्माषकाख्यातुलितस्य मूल्यम् ॥ यन्मूल्यं पद्मरागस्य सगुणस्य प्रकीर्त्तितम् । तावन्मूल्यं तथा शुद्धे कुरुबिन्दे विधीयते ॥ सगुणे कुरुबिन्दे च यावन्मूल्यं प्रकीर्त्तितम् । तावन्मूल्यं चतुर्थांशहीनं स्याद्वै सुगन्धिके ॥ यावन्मूल्यं समाख्यातं वैश्यवर्णे च सूरिभिः । तावन्मूल्यचतुर्थांशं हीयते शूद्रजन्मनि ॥ पद्मरागः पणं यस्तु धत्ते लाक्षारसप्रभः । कार्षापणस्रहस्राणि त्रिंशन्मूल्यं लभेत सः ॥ इन्द्रगोपकसङ्काशः कर्षत्रयधृतो मणिः । द्वाविंशतिसहस्राणि तस्य मूल्यं विनिर्द्दिशेत् ॥ एकोनो नूयते यस्तु जवाकुसुमसन्निभः । कार्षापणसहस्राणि तस्य मूल्यं चतुर्द्दश ॥ बालादित्यद्युतिनिभः कर्षं यस्तु प्रतुल्यते । कार्षापणशतानान्तु मूल्यं सद्भिः प्रकीर्त्तितम् ॥ यस्तु दाडिमपुष्पाभः कर्षार्द्धेन तु सम्मितः । कार्षापणशतानान्तु विंशतिर्मूल्यमादिशेत् ॥ चत्वारो माषका यस्तु रक्तोत्पलदलप्रभः । मूल्यं तस्य विधातव्यं सूरिभिः शतपञ्चकम् ॥ द्बिमाषको यस्तु गुणैः सर्व्वैरेव समन्वितः । तस्य मूल्यं विधातव्यं द्विशतं तत्त्ववेदिभिः ॥ माषकैकमितो यस्तु पद्मरागो गुणान्वितः । शतैकसम्मितं वाच्यं मूल्यं रत्नविचक्षणैः ॥ अतो न्यूनप्रमाणास्तु पद्मरागा गुणोत्तराः । स्वर्णद्बिगुणमूल्येन मूल्यं तेषां प्रकल्पयेत् ॥ कार्षापणः समाख्यातः पुराणद्वयसम्मितः । अन्ये कुसुम्भपानीयमञ्जिष्ठोदकसन्निभाः ॥ काषाया इति विख्याताः स्फटिकप्रभावाश्च ते । तेषां दोषो गुणो वापि पद्मरागवदादिशेत् ॥ मूल्यमल्पन्तु विज्ञेयं धारणेऽल्पफलं तथा । ब्रह्मक्षत्त्रियवैश्यान्त्याश्चतुर्धा ये प्रकीर्त्तिताः ॥ चतुर्विधैर्नृपतिभिर्धार्य्याः सम्पत्तिहेतवे । अतोऽन्यथा धृतः कुर्य्याद्रोगशोकभयक्षयम् ॥” इति युक्तिकल्पतरुः ॥ (यथा, कथासरित्सागरे । २६ । ४४ । “सोऽपि प्राप्तस्तदद्राक्षीन्माणिक्यस्तम्भभास्वरम् । सौवर्णभित्ति सङ्केतकेतनं सम्पदामिव ॥” कदलीविशेषः । तद्यथा, —
“माणिक्यमर्त्त्यामृतचम्पकाद्या भेदाः कदल्या बहवोऽपि सन्ति ।” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)



Correction: