वाचस्पत्यम्
मातलि || पु० मतं साति ला—क मतलस्तस्यापत्यम् इञ् । इन्द्रसारथौ अमरः ।
शब्दकल्पद्रुमः
मातलिः || पुं, (मतं लातीति । ला + कः । पृषो- दरादित्वात् साधुः । मतलस्यापत्यं पुमानिति वा । मतल + “अत इञ् ।” ४ । १ । ९५ । इतीञ् ।)
इन्द्रसारथिः । इत्यमरः । १ । १ । ३८ ॥ (यथा, महाभारते । ५ । ९७ । ११ । “मतस्त्रिलोकराजस्य मातलिर्नाम सारथिः । तस्यैकैव कुले कन्या रूपतो लोकविश्रुता ॥”)