संस्कृत-शब्दकोशः

मातुलुङ्गिका मातृकच्छिद

मातृ

वाचस्पत्यम्

मातृ ||‍ त्रि० मा—वृच् । १ प्रमाणकर्त्तरि २ परिमाणकर्त्तरि ३ जीवे ४ आकाशे च मातरिश्वा । मातारौ मातारः । मा—तृ । “ब्राह्मी माहेश्वरी चण्डी वाराही वैष्णवी तथा । कौमारी चैव चामुण्डा चर्चिकेत्यष्ट मातरः” इत्युक्ते ५ शिवसहचरीभेदे । ६ जनन्याम् ७ भूमौ ८ विभूतौ शब्दर० । ९ लक्ष्म्याम् हेमच० १० रेवत्याम् अमरः ११ स्त्री गव्यां मेदि० १२ आखुकर्ण्याम् १३ इन्द्रवारुण्याम् (रा- खालशशा) १४ जटामांस्यां राजनि० । चण्डीप्रसिद्धासु १५ देवीशक्तिषु च । “मातॄः कोपमयाविष्टः” देवीमा० । आतिदेशिकमातरश्च ब्रह्मवै० पु० गण० ख० १५ अ० उक्ता यथा “स्तन्यदात्री गर्भधात्री भक्ष्यधात्री गुरुप्रिया । अभीष्ट- देवपत्नी च पितुः पत्नी च कन्यका । सगर्भजा या भगिनी पुत्रपत्नी प्रियाप्रसूः । मातुर्माता पितुर्माता सोदरस्य० प्रिया तथा । मातुः पितुश्च भगिनी मातु- लानी तथैव च । जनानां वेदविहिता मातरः षो- डश स्मृताः” । ब्रह्मवै० पु० जन्मख० ५९ अ० अन्यविधा उक्ता यथा “गुरुपत्नी राजपत्नी देवपत्नी तथा बधूः । पित्रोः स्वसा शिष्यपत्नी भृत्यपत्नी च मातुली । पितृपत्नी भ्रातृपत्नो श्वश्रूश्च भगिनीसुता । गर्भधात्रीष्टदेवी च पुंसः षो- डश मातरः” । तत्रैव २५ अ० “गुरोःपत्नी राजपत्नी विप्रपत्नी च या सती । पत्नी च भ्रातृसुतयोर्मित्रपत्नी च तत्प्रसूः । प्रसूः पित्रोस्तयोर्भ्रातुःपत्नी श्वश्रूः स्व- कन्यका । जननी तत्सपत्नी च भगिनी सुरभी तथा । स्वाभीष्टसुरपत्नी च धात्री कान्ता प्रदायिका । गर्भधात्री स्वनाम्नी च भयात्रातुश्च कामिनी । एता वेदप्रणीताश्च सर्वेषां मातरः स्मृतः” । अस्य रूपं मातरौ मातरः । वृद्ध्यादौ पूज्यासु गौर्य्यादिषु १६ देवीशक्तिभेदेषु “गौरी पद्मा शची मेधा सावित्री विजया जया । देवसेना स्वधा स्वाहा मातरो लोकमातरः । शान्तिः पुष्टि- र्धृतिस्तुष्टिरात्मदेवतया सह” शु० त० गृह्यपु० ।


शब्दकल्पद्रुमः

माता || [ऋ] स्त्री, मान्यते पूज्यते या सा । मान ङ पूजायां नाम्नीति डातृ इति भरतः ॥ (यद्बा, “नप्तृनेष्टृत्वष्टृहोतृपोतृभ्रातृजामातृमातृपितृ- दुहितृ ।” उणा० २ । ९६ । इति तृच् । निपातितश्च । स्वस्रादित्वाट्टाप् निषेधः ।)
मा इति भाषा । तत्पर्य्यायः । जनयित्री २ प्रसूः ३ जननी ४ । इत्यमरः । २ । ६ । २९ ॥ सवित्री ५ जनिः ६ जनी ७ जनित्री ८ अक्का ९ अम्बा १० अम्बिका ११ अम्बा- लिका १२ । इति शब्दरत्नावली ॥ मातृका १३ । इति जटाधरः ॥ * ॥
षोडशप्रकारा मातरो यथा, —
“स्तनदात्री गर्भधात्री भक्षदात्री गुरुप्रिया । अभीष्टदेवपत्नी च पितुः पत्नी च कन्यका ॥ सगर्भजा या भगिनी पुत्त्रपत्नी प्रियाप्रसूः । मातुर्माता पितुर्माता सोदरस्य प्रिया तथा ॥ मातुः पितुश्च भगिनी मातुलानी तथैव च । जनानां वेदविहिता मातरः षोडश स्मृताः ॥” इति ब्रह्मवैवर्त्ते गणपतिखण्डे कार्त्तिकेय- संवादे १५ अध्यायः ॥ तस्या गौरवं यथा, —
“जनको जन्मदातृत्वात् पालनाच्च पिता स्मृतः । गरीयान् जन्मदातुश्च योऽन्नदाता पिता मुने ॥ विनान्नान्नश्वरो देहो न नित्यः पितुरुद्भवः ॥ तयोः शतगुणे माता पूज्या मान्या च बन्दिता । गर्भधारणपोषाभ्यां सा च ताभ्यां गरीयसी ॥” इति तत्रैव ४० अध्यायः ॥ अपि च । “स गुरुर्यः क्रियाः कृत्वा वेदमस्मै प्रयच्छति । उपनीय ददद्बेदमाचार्य्यः स प्रकीर्त्तितः ॥ एकादश उपाध्याया ऋत्विग्यज्ञकृदुच्यते । एते मान्या यथापूर्ब्बमेभ्यो माता गरीयसी ॥” इति गारुडे ९४ अध्यायः ॥ अन्यच्च । “न पितुर्व्वचनं कार्य्यं यथा मातुः सुतेन हि । पिता च पतितस्त्याज्यो न माता सत्सुतेन हि । गर्भधारणपोषाद्धि ततो माता गरीयसी ॥ दशविप्रादुपाध्यायो गौरवेणातिरिच्यते । तेभ्यः पिता दशभ्यस्तु माता चैव गरीयसी । मातृतोऽन्यो न देवोऽस्ति तस्मात् पूज्या सदा सुतैः ॥ मातुश्च यद्धितं किञ्चित् कुरुते भक्तितः पूमान् । तद्धर्म्मं हि विजानीयादेवं धर्म्मविदो विदुः ॥” इति वह्निपुराणम् ॥ अपरञ्च । “गुरूणामपि सर्व्वेषां पूज्याः पञ्च विशेषतः । तेषामाद्यास्त्रयः श्रेष्ठास्तेषां माता सुपूजिता ॥ यो भावयति या सूते येन विद्योपदिश्यते । ज्येष्ठभ्राता च भर्त्ता च पञ्चैते गुरवः स्मृताः ॥ आत्मनः सर्व्वयत्नेन प्राणत्यागेन वा पुनः । पूजनीया विशेषेण पञ्चैते भूतिमिच्छता ॥ यावत् पिता च माता च द्वावेतौ निर्व्विकारिणौ । तावत् सर्व्वं परित्यज्य पुत्त्रः स्यात्तत्परायणः ॥ पिता माता च सुप्रीतौ स्यातां पुत्त्रगुणैर्यदि । स पुत्त्रः सकलं धर्म्मं प्राप्नुयात्तेन कर्म्मणा ॥ नास्ति मातृसमं दैवं नास्ति पितृसमो गुरुः । तयोः प्रत्युपकारोऽपि न कथञ्चन विद्यते ॥ तयोर्नित्यं प्रियं कुर्य्यात् कर्म्मणा मनसापि वा । न ताभ्यामननुज्ञातो धर्म्ममन्यं समाश्रयेत् ॥” इति कौर्म्मे उपविभागे ११ अध्यायः ॥ मातृशब्दसम्भाषया मातृतुल्यत्वम् यथा, —
“मातरित्येव शब्देन याञ्च संभाषते नरः । सा मातृतुल्या सत्येन धर्म्मः साक्षी सतामपि ॥ तया सहितशृङ्गारे कालसूत्रं प्रयाति सः । तत्र घोरे वसत्येव यावद्वै ब्रह्मणो वयः ॥ प्रायश्चित्तं पापिनश्च तस्य नैव श्रुतौ श्रुतम् ॥” इति ब्रह्यवैवर्त्ते ब्रह्मखण्डे १० अध्यायः ॥ शिवस्य परिवारविशेषः । स च असुरमारणे ब्रह्मादीनां स्वेदनिर्गतत्वात् अष्टशक्तिदेवता- रूपो यथा, —
“ब्राह्मी माहेश्वरी चैन्द्री वाराही वैष्णवी तथा । कौमारी चैव चामुण्डा चर्च्चिकेत्यष्ट मातरः ॥” सप्तविधोऽपि यथा, —
“ब्राह्मी च वैष्णवी चैन्द्री रौद्री वाराहिकी तथा । कौवेरी चैव कौमारी मातरः सप्त कीर्त्तिताः ॥” इत्यमरटीकायां भरतः ॥ गौर्य्यादिषोडशमातृकाः । यथा, —
“गौरी पद्मा शची मेधा सावित्री विजया जया । देवसेना स्वधा स्वाहा मातरो लोकमातरः ॥ शान्तिः पुष्टिर्धृतिस्तुष्टिरात्मदेवतया सह । आदौ विनायकः पूज्यो अन्ते च कुलदेवता ॥” इति श्राद्धतत्त्वे बह्वृचगृह्यपरिशिष्टम् ॥ वैष्णवपूज्या मातृगणा यथा, —
“यत्र मातृगणाः पूज्यास्तत्र ह्येताः प्रपूजयेत् । सदा भागवती पोर्णमासी पद्मान्तरङ्गिका ॥ गङ्गाकलिन्दतनयागोपीवृन्दावतीस्तथा । गायत्त्रीतुलसीवाणीपृथिवीगाश्च वैष्णवीः ॥ श्रीयशोदादेवहूतीदेवकीरोहिणीमुखाः । श्रीसीता द्रौपदी कुन्ती ह्यपरा या महर्षयः । रुक्मिण्याद्यास्तथा चाष्ट महिषीर्याश्च ता अपि ॥” इति पाद्मे उत्तरखण्डे ७८ अध्यायः ॥ सप्त मातरो यथा, —
“आदौ माता गुरोः पत्नी ब्राह्मणी राजपत्निका । गावी धात्री तथा पृथ्वी सप्तैता मातरःस्मृताः ॥” इति कैश्चित् पठितम् ॥ मातृतुल्या यथा । “मातृष्वसा मातुलानी पितृव्यस्त्री पितृष्वसा । श्वश्रूः पूर्ब्बजपत्नी च मातृतुल्याः प्रकीर्त्तिताः ॥” इति दायभागः ॥ गौः । भूमिः । इति मेदिनी । ते, ४३ ॥ (निरुक्ते च । ८ । ३ । “यदूर्द्धस्तिष्ठा द्रविणेह धत्ताद्यद्वा- क्षयो मातुरस्या उपस्थे ।” “मातुः अस्या पृथिव्याः ।” इति तट्टीकायां दुर्गाचार्य्यः ।)
विभूतिः । इति शब्दरत्नावली ॥ लक्ष्मीः । इति हेमचन्द्रः । ३ । ३२१ । रेवती । इत्यजयपालः ॥ आखुकर्णी । इन्द्रवारुणी । महाश्रावणी । जटा- मांसी । इति राजनिर्घण्टः ॥ परिमाणकर्त्तरि, त्रि । अस्मिन्नर्थे परिमाणार्थमाधातोः कर्त्तरि तृन्प्रत्ययेन निष्पन्नः ॥ (निर्म्माणकर्त्तरि च । यथा, ॠग्वेदे । १ । ६१ । ७ । “अस्येदु मातुः सवनेषु सद्योमहः ।” “मातुः वृष्टिद्वारेण सकलस्य जगतो निर्मातुः ।” इति तद्भाष्ये सायनः ॥)



Correction: