वाचस्पत्यम्
मात्र || न० मा—त्रन् । १ साकल्ये २ अवधारणे च अमरः । ३ परिच्छदे ४ अल्पे ५ परिमाणे स्त्री अमरः । ६ कर्णभूषायाम् ७ वित्ते ८ वर्णावयवभेदे च स्त्री मेदि० । “कालेन यावता पाणिः पर्य्येति जानुमण्डम् । सा मात्रा कविभिः प्रोक्ता” इत्युक्ते ९ ह्रस्ववर्णोच्चारणकाले च स्त्री । “एक- मात्रो भवेद् ह्रस्वः” । मीयस्तेऽनया विषयाः मा—करणे च्छ्रन् । १० इन्द्रियवृत्तौ । “मात्रास्पर्शास्तु कौन्तेय!” गीता ।
शब्दकल्पद्रुमः
मात्रं || क्ली (मीयत इति । मा + त्रन् ।)
कार्त्- स्न्यम् । अवधारणम् । इत्यमरः । ३ । ३ । १७७ ॥ कार्त्स्न्ये यथा जीवमात्रं न हिंसेत । अवधा- रणे यथा पयोमात्रं भुङ्क्ते । इति तट्टीकायां भरतः ॥