शब्दकल्पद्रुमः
मात्रा || स्त्री (मीयते अनया । मा + “हुयामाश्रुभ- सिभ्यस्त्रन् ।” उणा० ४ । १६८ । इति त्रन् टाप् ।)
परिच्छदः । अल्पः । परिमाणम् । इत्यमरः । ३ । ३ । १७७ ॥ परिच्छदो हस्त्यश्वादिः । अल्पे यथा । शाकमात्रा । परिमाणे यथा । किं हस्तिमात्रोऽङ्कुशः । इति तट्टीकायां भरतः ॥ (यथा, बृहत्संहितायाम् । ५८ । २ ॥ “अङ्गुलमेकं भवति मात्रा ।”)
कर्णभूषा । वित्तम् । अक्ष- रावयवः । इति मेदिनी । रे, ७५ ॥ * ॥
(छन्दसां ह्रस्वदीर्घादिप्रभेदः । यथा, श्रुतबोधे । “यस्याः पादे प्रथमे द्वादश मात्रा तथा तृतीये- ऽपि ॥”)
कालविशेषः । यथा, —
“कालेन यावता पाणिः पर्य्येति जानुमण्डले । सा मात्रा कविभिः प्रोक्ता ह्रस्वदीर्घप्लुते मता ॥ इति प्राचीनाः ॥ अपि च । “वामजानुनि तद्धस्तभ्रमणं यावता भवेत् । कालेन मात्रा सा ज्ञेया मुनिभिर्वेदपारगैः ॥” इति तन्त्रसारः ॥ इन्द्रियवृत्तिः । यथा, —
“मात्रास्पर्शास्तु कौन्तेय ! शीतोष्णसुखदुःखदाः । आगमापायिनो नित्यास्तांस्तितिक्षस्व भारत ! ॥” इति भगवद्गीता ॥ “मीयन्ते आभिर्विषयाः मात्रा इन्द्रियवृत्तयः ।” इति तट्टीकायां श्रीधरस्वामी ॥ इन्द्रियम् । इति पूर्ब्बोक्तश्लोकटीकायां मधु- सूदनसरस्वती ॥ अंशः । यथा, —
“न योषिद्भ्यः पृथग्दद्यादवसानदिनादृते । स्वभर्त्तृपिण्डमात्राभ्यस्तृप्तिरासां यतः स्मृता ॥” इति श्राद्धतत्त्वम् ॥ (शिलोच्चयः । यथा, ऋग्वेदे । ३ । ४ । ६ । ३ । “प्र मात्राभी रिरिचे ।” “मात्राभिः मीयन्ते परिच्छिद्यन्त इति मात्राः शिलोच्चयाः ।” इति तद्भाष्ये सायनः ॥ शक्तिः । यथा, पञ्चतन्त्रे । १ । ३५९ । “का मात्रा समु- द्रस्य यो मम प्रसूतिं दूषयिष्यति ॥” अव- यवः । यथा, मनौ । ७ । ४ । “चन्द्रवित्तेशयोश्चैव मात्रानिर्हृत्य शाश्वतीः ॥” “मात्रा अवयवाः ।” इति तट्टीकायां मेधा- तिथिः ॥ रूपम् । यथा, भागवते । २ । ५ । २५ ॥ “तस्य मात्रा गुणः शब्दः ॥” “मात्रा सूक्ष्मं रूपम् ।” इति तट्टीकायां स्वामी ॥)