संस्कृत-शब्दकोशः

माधविका माधवीलता

माधवी

शब्दकल्पद्रुमः

माधवी || स्त्री (मधौ साधुपुष्प्यति । मधु + “कालात् साधुपुष्प्यत्पच्यमानेषु ।” ४ । ३ । ४३ । इत्यण् । ङीप् ।)
स्वनामख्यातपुष्पलता । तत्पर्य्यायः । अतिमुक्तः २ पुण्ड्रकः ३ वासन्ती ४ लता ५ । इत्यमरः । २ । ४ । ७२ ॥ अतिमुक्तकः ६ माधविका ७ माधवीलता ८ । इति तट्टीकायां भरतः ॥ चन्द्रवल्ली ९ सुगन्धा १० भ्रमरोत्सवा ११ भृङ्गप्रिया १२ भद्रलता १३ भूमिमण्डप- भूषणा १४ वसन्तीदूती १५ । इति जटाधरः ॥ लतामाधवी १६ । इति शब्दरत्नावली ॥ (यथा, देवीभागवते । १ । १२ । ७ । “आम्रैनींपैर्मधूकैञ्च माधवीमण्डपावृताम् ।”)
अस्या गुणाः । कटुत्वम् । तिक्तत्वम् । कषाय- त्वम् । मदगन्धित्वम् । पित्तकासव्रणदाहशोष- नाशित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “माधवी स्यात्तु वासन्ती पुण्ड्रको मण्डकोऽपि च । अतिमुक्तो विमुक्तञ्च कामुको भ्रमरोत्सवः ॥ माधवी मधुरा शीता लघ्वी दोषत्रयापहा ।” इति भावप्रकाशः ॥ मिसिः । मधुशर्करा । कुट्टनी । (मधुनो विकार इत्यण् ङीप् ।)
मदिरा । इति मेदिनी । वे, ४६ — ४७ ॥ (यथा, महाभारते । ४ । १५ । ३ । “अस्ति मे शयनं दिव्यं त्वदर्थमुपकल्पितम् । एहि तत्र मया सार्द्धं पिबस्व मधुमाधवीम् ॥” माधवस्येयमित्यण् ङोप् । तत्प्रियत्वात्तथा- त्वम् ।)
तुलसी । इति शब्दमाला ॥ (मधौ वसन्ते सेव्यार्च्चनीयेति अण् ।)
दुर्गा । इति शब्दरत्ना- वली ॥ माधवस्य पत्नी च ॥ (मधुवंशजा कन्या । यथा, महाभारते । १ । ९५ । १२ । ‘जनमेजयः खल्वनन्तां नामोपयेमे माधवीं तस्यामस्य जज्ञे प्राचिन्वान् ॥’)



Correction: