संस्कृत-शब्दकोशः

माधुर माधुर्य

माधुरी

वाचस्पत्यम्

माधुरी ||‍ स्त्री मधुरस्य भावः ष्यञ् माधुर्य्यं षित्त्वात् स्त्रीत्व पक्षे ङीष् यलोपः । १ माधुर्य्ये अधुरत्वे, “सद्यस्खलन्मा- धुरी धारा” इत्युद्भटः । मधुरा + स्वार्थे अण् । २ मदिरायाम्


शब्दकल्पद्रुमः

माधुरी || स्त्री (माधुर + गौरादित्वात् ङीष् ।)
मद्यम् । इति भूरिप्रयोगः ॥ माधुर्य्यम् । यथा, “तानि स्पर्शसुखानि ते च तरलाः स्निग्धा दृशोर्विभ्रमा- स्तद्बक्त्राम्बुजसौरभं स च सुधास्यन्दी गिरां वक्रिमा । सा बिम्बाधरमाधुरीति विषयासङ्गेऽपि चेन्मा- नसं तस्यां लग्नसमाधि हन्त विरहव्याधिः कथं वर्द्धते ॥” इति गीतगोविन्दे ३ सर्गेः ॥



Correction: