संस्कृत-शब्दकोशः

माधुरी माध्यन्दिन

माधुर्य

वाचस्पत्यम्

माधुर्य्य ||‍ न० मधुरस्य भावः ष्यञ् । १ मधुरत्वे “चित्तद्रवी- भावमयो ह्लादो माधुर्य्यमुच्यते” सा० द० उक्ते २ काव्य गुणभेदे च । तद्व्यञ्जकवर्णाश्च तत्रोक्ता यथा “मूर्द्ध्नि वर्गान्त्यवर्णेन युक्ताः टठडढान् विना । रणौ लघु च तद्व्यक्तौ वर्णाः कारणतां गताः । अवृत्तिरल्पवृत्तिर्वा मधुरा रचना मना” । तच्च सम्भोगशृङ्गादावनुगुणं यथोक्तं तत्रैव “सम्भोगे करुणे विप्रलम्भे शान्तेऽधिकं क्रमात् ३ लावण्ये हेम० । “रूपं किमप्यनिर्वाच्यं तनो- र्माधुर्य्यमुच्यते” उज्ज्वलमणौ तल्लक्षणमुक्तम् ।


शब्दकल्पद्रुमः

माधुर्य्यं || क्ली (मधुरस्थ भावः : मधुर + “वर्ण- दृढाभ्यः ष्यञ् च ।” ५ । १ । १२३ । इति ष्यञ् ।)
मधुरस्य भावः । मधुरत्वम् । इति हेमचन्द्रः । ३ । १७३ । (यथा, सुश्रुते सूत्रस्थाने एका- दशाध्याधे । “माधुर्य्यं भजतेऽत्यर्थं तीक्ष्णभावं विमुञ्चति ॥”)
लावण्यम् । यथा, —
“रूपं किमप्यनिर्व्वाच्यं तनोर्माधुर्य्यमुच्यते ।” इत्युज्ज्वलनीलमणिः ॥ पाञ्चालीरीतिविशिष्टकाव्यगुणः । यथा, —
“मधुरां सुकुमाराञ्च पाञ्चालीं कवयो विदुः ।” इति साहित्यदर्पणे ९ परिच्छेदः ॥ तस्य लक्षणं यथा, साहित्यदर्पणे ८ परिच्छेदे । “चित्तद्रवीभावमयो ह्लादो माधुर्य्यमुच्यते । सम्भोगे करुणे विप्रलम्भे शान्तेऽधिकं क्रमात् ॥ मूर्द्ध्नि वर्गान्त्यवर्णेन युक्ताष्ट ठ ड ढान् विना । रणौ लघु च तद्व्यक्तौ वर्णाः कारणतां गताः ॥ अवृत्तिरल्पवृत्तिर्वा मधुरा रचना तथा ।” (नायिकानामयत्नजोऽलंकारविशेषः । यथा, साहित्यदर्पणे । ३ । १२९ । “सङ्क्षोभेष्वप्यनुद्वेगो माधुर्य्यं परिकीर्त्तितम् ।” सात्त्विकनायकगुणभेदः । यथा, तत्रैव । ३ । ९१ । “सर्वावस्थाविशेषेषु माधुर्य्यं रमणीयता ।”)



Correction: