संस्कृत-शब्दकोशः

माधुर्य माध्यम

माध्यन्दिन

वाचस्पत्यम्

माध्यन्दिन ||‍ न० मध्यन्दिनमेव—अण् । मध्यमदिने तत्र पाठ्यः अण् । शुक्लयजुर्वेदीयशास्वाभेदे ।


शब्दकल्पद्रुमः

माध्यन्दिनं || त्रि (मध्ये भवम् । मध्य + “अन्तः- पूर्ब्बपदात् ठञ् ।” ४ । ३ । ६० । इत्यत्रकाशिका सूत्रवृत्तौ “मध्योमध्यं दिनण् चास्मात् ।” इति दिनण् ।)
मध्यमम् । इति हेमचन्द्रः । ६ । ९६ ॥ (मध्यन्दिनसम्बन्धि । यथा, ऋग्वेदे । ३ । २८ । ४ । “माध्यन्दिने सवने जातवेदः पुरोडाशमिह कवे ! जुषस्व ।” “माध्यन्दिने मध्यन्दिनसम्बन्धिनि” तथा “माध्य- न्दिने मध्यं दिनस्येदमित्यर्थे उत्सादित्वादञ् ञित्वादादिवृद्धिः ञित्वादेवाद्युदात्तत्वम् ।” इति च तद्भाष्ये सायनः ॥ मध्यन्दिनेन प्रोक्ताधीता वा । इत्यण् ङीप् । शुक्लयजुर्वेदस्य शाखाभेदः । यथा, आश्वलायनीयश्रौतसूत्रे । ५ । ५ । १९ । “पिबा सोममभियमुग्रतर्द इति तिस्रोऽर्वाङेहि सोमकामं त्वाहुस्तवायं सोमस्त्वमेह्यर्वाङिन्द्राय सोमाः प्र दिवो विदाना आ पूर्णो अस्य कलशः स्वाहेति माध्यन्दिन्यः ।”)



Correction: