संस्कृत-शब्दकोशः

मान मानग्रन्थि

मानक

वाचस्पत्यम्

मानक is an alternate of माणक. माण(न)क ||‍ न० मा—अकच् णुट् मुट् वा । स्वनामख्याते कन्दभेदे “हरिद्रा माण(न)कं कचुः” नवपत्रिकोक्तौ ।


शब्दकल्पद्रुमः

मानकं || क्ली पुं, (मानं बृहत्परिमाणमस्य । “शेषाद्विभाषा ।” ५ । ४ । १५४ । इति कप् ।)
माणकम् । माणकचु इति भाषा । “कच्वीतु पिच्छिला प्रोक्ता विस्तीर्णपर्णमानके ।” इति शब्दचन्द्रिका ॥ “स्थलकन्दो ग्राम्यकन्दः स्थलपद्मस्तु मानकः ।” इति रत्नमाला ॥ अस्य गुणाः । “मानकं स्वादु शीतञ्च गुरु शोथहरं कटु ।” इति राजवल्लभः ॥ अपि च । “मानकः स्यान्महापत्रः कथ्यते तद्गुणा अथ । मानकः शोथहृच्छीतः पित्तरक्तहरो लघुः ॥” इति भावप्रकाशः ॥ (विषयोऽस्य यथा, —
“पुराणं मानकं पिष्ट्वा द्विगुणीकृततण्डुलम् । साधितं क्षीरतोयाभ्यामभ्यसेत् पायसन्तु तत् ॥ हन्तुं वातोदरं शोथं ग्रहणीं पाण्डुतामपि । सिद्धो भिषग्भिराख्यातः प्रयोगोऽयं निरत्ययः ॥” इति वैद्यकचक्रपाणिसंग्रह उदराधिकारे ॥)



Correction: