वाचस्पत्यम्
मानुष || पु० मनोरयम् अण् सुक् च । मानवे, ततोजातौ स्त्रियां ङीप् मानुषी । मानुषस्येदम् अण् । २ मनुष्यसम्ब- न्धिनि त्रि० स्त्रियां ङीप् सा च ३ चिकित्साभेदे शब्दर० ।
शब्दकल्पद्रुमः
मानुषः || पुं, (मनोर्जातः । मनु + “मनोर्जाता- वञ् यतौ षुक् च ।” ४ । १ । १६१ । इत्यञ् षुगागमश्च ।)
मनुष्यः । इत्यमरः । २ । ६ । १ ॥ (यथा, मनौ । ९ । २८४ । “चिकित्सकानां सर्व्वेषां मिथ्याप्रचरतां दमः । अमानुषेषु प्रथमो मानुषेषु तु मध्यमः ॥” मनुष्यस्येदम् । अण् । मनुष्यसम्बन्धिनि, त्रि । यथा, महाभारते । १३ । ६ । २० । “अकृत्वा मानुषं कर्म्म यो दैवमनुवर्त्तते । वृथा श्राम्यति संप्राप्य पतिं क्लीवमिवाङ्गना ॥”)