वाचस्पत्यम्
मान्धातृ || पु० मामिन्द्रं धयति धे—वृच् । “मामयं धास्यती- त्यस्मात् मान्धातासौ प्रकीर्त्तितः” इति निरुक्ते युव- नाश्वराजपुत्रे नृपभेदे ।
शब्दकल्पद्रुमः
मान्धाता || [ऋ] पुं, (मां धास्यतीति । घेट् + तृच् ।)
युवनाश्वराजपुत्त्रः । तत्पर्य्यायः । युवनाश्वजः २ । इति हेमचन्द्रः । ३ । ३६४ । तद्बिवरणं यथा । ‘तस्मात् प्रसेनजित् ततो युव- नाश्वोऽमवत् । तस्य च पुत्त्रस्यातिनिर्व्वेदान्- मुनीनामाश्रममण्डले निवसतः कृपालुभिस्तै- र्मुनिभिरपत्योत्पादनायेष्ठिः कृता । तस्याञ्चार्द्ध- रात्रे निवृत्तायां मन्त्रपूतजलपूर्णकलसं वेदी- मध्ये निवेश्य ते मुनयः सुषुपुः । सुप्तेषु च तेष्व- तीवतृट्परीतः स भूपालस्तमाश्रममण्डलं विवेश । सुषुप्तांश्च तानृषीन् नैवोत्थापयामास ॥ तच्च कलसजलमपरिमेयमाहात्म्यं मन्त्रपूतं पपौ । प्रबुद्धाश्च ऋषयः पप्रच्छुः । केनैतन्मन्त्र- पूतं वारि पीतम् । अत्र हि पीते राज्ञोऽस्य युवनाश्वस्य पत्नी महाबलपराक्रमं पुत्त्रं जन- यिष्यति । इत्याकर्ण्य स राजा अजानता मया पीतमित्याह । गर्भश्च युवनाश्वोदरेऽभवत् । क्रमेण च ववृधे । प्राप्तसमयश्च दक्षिणं कुक्षि- मवनीपतेर्निभिद्य निश्चक्राम । न चासौ राजा ममार । जातो नामैष कं धास्यतीति ते मुनयः प्रोचुः । अथागम्य देवराडब्रवीत् । मामयं धास्यति । ततोऽसौ मान्धाता नामतोऽभवत् । वक्त्रे चास्य प्रदेशिनी देवेन्द्रेण न्यस्ता तां पपौ । ताञ्चामृतस्राविणीमासाद्याह्नैवैकेन व्यवर्द्धत । स तु मान्धाता चक्रवर्त्ती सप्तद्बीपां महीं बुभुजे । भवति चात्र श्लोकः । “यावत् सूर्य्य उदेतिस्म यावच्च प्रतितिष्ठति । सर्व्वं तद्यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ॥” मान्धाता शशबिन्दुदुहितरं बिन्दुमतीमुपयेमे । पुरुकुत्समम्बरीषं मुचुकुन्दञ्च तस्यां पुत्त्रत्रय- मुत्पादयामास । पञ्चाशच्च दुहितरस्तस्यामेव तस्य नृपतेर्ब्बभूवुः ।” इति विष्णुपुराणे ४ अंशे २ अध्यायः ॥