वाचस्पत्यम्
मान्य || पु० मान—अर्च्चायां कर्मणि ण्यत् । १ पूज्ये जटा० । २ मरुन्मालायां स्त्री शब्दमा० ।
शब्दकल्पद्रुमः
मान्यः || त्रि (मान्यत इति । मान + कर्म्मणि ण्यत् ।)
अर्च्च्यः । तत्पर्य्यायः । पूज्यः २ प्रतीक्ष्यः ३ भगवान् ४ भट्टारकः ५ । इति जटाधरः ॥ (यथा च मनौ । २ । १३९ । “तेषान्तु समवेतानां मान्यौ स्नातकपार्थिवौ ।” प्रार्थनीयः । यथा, रामायणे । २ । ८ । १८ । “यथा वै भरतो मान्यस्तथा भूयोऽपि राघवः । कौशल्यातोऽतिरिक्तञ्च मम सुश्रूषते बहु ॥” “मान्यः प्रार्थनीयः श्रेयस्करः । तथा तद्बत् ।” इति तट्टीकायां रामानुजः ॥)