वाचस्पत्यम्
मामक || त्रि० मम—इदम् अस्मद् + बुण् ममादेशः । मत्सम्ब- न्धिनि खञ् । मामकीनोप्यत्र ।
शब्दकल्पद्रुमः
मामकं || त्रि (ममेदम् । अस्मद् + “तवकममका- वेकवचने ।” ४ । ३ । ३ । इति अण् ममका- देशश्च ।)
मदीयम् । इति मेदिनी । के, १३८ ॥ (यथा, महाभारते । १ । १०५ । १२ । “ततो मामाह स मुनिर्गर्भमुत्सृज मामकम् ॥”)
ममतायुक्तः । इति शब्दमाला ॥ यथा च महाभारते । ४ । ५० । १७ । “अत्र या मामिका बुद्धिः श्रूयतां यदि रोचते ॥”)
शब्दकल्पद्रुमः
मामकः || पुं, (माम + स्वार्थे कन् ।)
मातुलः । इति मेदिनी ॥ के, १३८ ॥ ममायं वा ममेदमिति बुद्धिर्यस्य । कप् ।)
कृपणः । इति शब्दमाला ॥