संस्कृत-शब्दकोशः

माय मायाकार

माया

वाचस्पत्यम्

माया ||‍ स्त्री मा—यत् बा० नैत्त्वम् ।
१ छद्मनि कापट्ये अमरः ।
२ इन्द्रजालादौ
३ मिथ्याबुद्धिहेत्वज्ञानभेदे,
४ कृपायां
५ दम्भे
६ लक्ष्म्यां च मेदि० ।
७ बुद्धमातरि स्त्री अमरः ।
८ ईश्वरस्योपाध्रौ, अघटनघटनसाधिकायां शक्तौ वेदान्त० ।
९ पीताम्बरे
१० असुरभेदे पु० मेदि० ।


शब्दकल्पद्रुमः

माया || स्त्री (मीयते अपरोक्षवत् प्रदर्श्यतेऽनया इति । मा + “माच्छाससिसूभ्यो यः ।” उणा० ४ । १०९ । इति यः टाप् ।)
इन्द्रजालादिः । तत्पर्य्यायः । शाम्बरी २ । इत्यमरः । २ । १० । ११ ॥ इन्द्रजालिः ३ कुहकम् ४ कुसृतिः ५ शाम्बरिः ६ । इति जटाधरः । साम्बरी ७ । इति शब्दरत्नावली ॥ माति विश्वमस्यां मनी- षादिः । शम्बरस्य दैत्यस्य इयं शाम्बरी तेन प्राङ्निर्म्मितत्वात् । इति भरतः ॥ * ॥
बुद्धिः । इति मेदिनी । ये, ४६ । (मीमिते जानाति संख्यात्यनयेति । मा + यः टाप् ।)
कृपा । दम्भः । इति नानार्थे हेमचन्द्रः ॥ शठता । यथा, —
“माया तु शठता शाठ्यं कुसृतिर्निकृतिश्च सा ॥” (प्रज्ञा । यथा, ऋग्वेदे । २ । १७ । ५ । “अधारयत् पृथिवीं विश्वधायस मस्तभ्नान् मायया द्यामवस्रसः ।” “मायया प्रज्ञया ।” इति तद्भाष्ये सायनः ॥)
राज्ञां क्षुद्रोपायविशेषः । यथा, —
“मायोपेक्षेन्द्रजालानि क्षुद्रोपाया इमे त्रयः ॥” लक्ष्मीः । इति च हेमचन्द्रः ॥ बुद्धमाता । इत्यमरकोषे मायादेवीसुतशब्ददर्शनात् । दुर्गा । यथा, —
“दुर्गे शिवेऽभये माये नारायणि सनातनि । जये मे मङ्गलं देहि नमस्ते सर्व्वमङ्गले ॥ राजन् ! श्रीवचनो माश्च याश्च प्रापणवाचकः । तां प्रापयति या सद्यः सा माया परिकीर्त्तिता ॥ माश्च मोहार्थवचनो याश्च प्रापणवाचनः । तं प्रापयति या नित्यं सा माया परिकीर्त्तिता ॥ इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे २७ अध्यायः ॥ अपि च । “विचित्रकार्य्यकारणा अचिन्तितफलप्रदा । स्वप्नेन्द्रजालवल्लोके माया तेन प्रकीर्त्तिता ॥” इति देवीपुराणे ४५ अध्यायः ॥ * ॥
विसदृशप्रतीतिसाधनं माया । इति नागोजी- भट्टः ॥ अघटनघटनपटीयसी माया । इति केचित् ॥ ईश्वरशक्तिः । तस्या नामान्तरं यथा । प्रकृतिः २ अविद्या ३ अज्ञानम् ४ प्रधानम् ५ शक्तिः ६ अजा ७ । सृष्टिकाले भगवान् आदौ मायां प्रकाशयामास । सा द्रष्टृदृश्यानुसन्धानरूपा कार्य्यकारणरूपा च । सत्वरजस्तमोगुणमयी । तस्याः शक्तिद्बयं आवरणं विक्षेपश्च । तस्या मायाया महत्तत्त्वं जातम् । तस्मादहङ्कारः । तस्मात् पञ्चभूतम् । तस्मात् ब्रह्माण्डम् । इति श्रीभागवतमतम् ॥ (मायास्वरूपम् । यथा च पञ्चदश्याम् । ६ । १२२ — १४१ । “तत्त्वनिश्चयकामेन न्यायागमविचारिणाम् । एकैव प्रतिपत्तिः स्यात् साप्यत्र स्फुटमुच्यते ॥ मायान्तु प्रकृतिं विद्यान्मायिनन्तु महेश्वरम् । अस्यावयवभूतैस्तु व्याप्तं सर्व्वमिदं जगत् ॥ इति श्रुत्यनुसारेण न्यायो निर्णय ईश्वरे । तथा सत्यविरोधः स्यात् स्थावरान्तेशवादिनाम् ॥ माया चेयं तमोरूपा तापनीये तदीरणात् । अनुभूतिं तत्र मानं प्रतिजज्ञे श्रुतिः स्वयम् ॥ जडं मोहात्मकं तच्चेत्यनुभावयति श्रुतिः । आबालगोपं स्पष्टत्वादानन्त्यं तस्य साब्रषीत् ॥ अचिदात्मघटादीनां यत् स्वरूपं जडं हि तत् । यत्र कुण्ठीभवेद् बुद्धिः स मोह इति लौकिकाः ॥ इत्थं लौकिकदृष्ट्यैतत् सर्वैरप्यनुभूयते । युक्तिदृष्ट्या त्वनिर्वाच्यं नासदासीदिति श्रुतेः ॥ नासदासीद् विभातत्वान्नो सदासीच्च बाधनात् । विद्यादृष्ट्या श्रुतं तुच्छं तस्य नित्यनिवृत्तितः ॥ तुच्छानिर्व्वचनीया च वास्तवी चेत्यसौ त्रिधा । ज्ञेया माया त्रिभिर्बोधैः श्रौतयौक्तिकलौकिकैः ॥ अस्य सत्त्वमसत्त्वञ्च जगतो दर्शयत्यसौ । प्रसारणाच्च सङ्कोचात् यथा चित्रपटस्तथा ॥ अस्वतन्त्रा हि माया स्यादप्रतीतेर्व्विना चितिम् । स्वतन्त्रापि तथैव स्यादसङ्गस्यान्यथाकृतेः ॥ कूटस्थासङ्गमात्मानं जडत्वेन करोति सा । चिदाभासस्वरूपेण जीवेशावपि निर्म्ममे ॥ कूटस्थमनपाकृत्य करोति जगदादिकम् । दुर्घटैकविधायिन्यां मायायां का चमत्कृतिः ॥ द्रवत्वमुदके वह्रावौष्ण्यं काठिन्यमश्मनि । मायाया दुर्घटत्वञ्च स्वतः सिध्यति नान्यथा ॥ न वेत्ति मायिनं लोको यावत् तावच्चमत्कृतिम् । धत्ते मनसि पश्चात्तु मायैषेत्युपशाम्यति ॥ प्रसरन्ति हि चोद्यानि जगद्वस्तुत्ववादिषु । न चोदनीयं मायायां तस्याश्चोद्यैकरूपतः ॥ चोद्येऽपि यदि चोद्यं स्यात् तच्चोद्ये चोद्यते मया । परिहार्य्यं ततश्चोद्यं न पुनः प्रतिचोद्यताम् ॥ विस्मयैकशरीराया मायायाश्चोद्यरूपतः । अन्वेष्यः परिहारोऽस्या बुद्धिमद्भिः प्रयत्नतः ॥ मायात्वमेव निश्चेयमिति चेत् तर्हि निश्चिनु । लोकप्रसिद्धमायाया लक्षणं यत् तदीक्ष्यताम् ॥ न निरूपयितुं शक्या विस्पष्टं भासते च या । सा मायेतीन्द्रजालादौ लोकाः सम्प्रतिपेदिरे ॥”)
विष्णुमायास्वरूपं यथा, —
“यामेतां भाषसे देव ! मम मायेति नित्यशः । का माया कीदृशी विष्णो ! किं वा मायेति चोच्यते । ज्ञातुमिच्छामि मायार्थं रहस्यं परमुत्तमम् ॥ ततस्तस्या वचः श्रुत्वा विष्णुर्मायाकरण्डकः । प्रहस्य मधुरं वाक्यं प्रत्युवाच वसुन्धराम् ॥ भूमे ! मा पृच्छ मायां मे यन्मां पृच्छसि सादरम् । वृथा क्लेशं किमर्थं त्वं प्राप्स्यसे मद्विलोकनात् । अद्यापि मां न जानन्ति रुद्रेन्द्राः सपितामहाः ॥ मम माया विशालाक्षि ! किं पुनस्त्वं वसुन्धरे ! ॥ पर्ज्जन्यो वर्षते यत्र तज्जलेन प्रपूर्य्यते । देशो निर्ज्जलतां याति एषा माया मम प्रिये ! ॥ सोमोऽपि हीयते पक्षे पक्षे वापि विवर्द्धते । अमायां स न दृश्येत मायेयं मम सुन्दरि ! ॥ हेमन्ते सलिलं कूपे उष्णं भवति तत्त्वतः । भवेच्च शीतलं ग्रीष्मे मायेयं मम तत्त्वतः ॥ पश्चिमां दिशमास्थाय यदस्तं याति भास्करः । उदेति पूर्ब्बतः प्रातर्मायेयं मम सुन्दरि ! ॥ शोणितञ्चेव शुक्रञ्च उभे प्राणिषु संस्थिते । गर्भे च जायते जन्तुर्मम मायैव चोत्तमा ॥ जीवः प्रविश्य गर्भे तु सुखदुःखानि बिन्दति । जातश्च विस्मरेत् सर्व्वमेषा माया ममोत्तमा ॥ आत्मकर्म्माश्रितो जीवो नष्टसंज्ञो गतस्पृहः । कर्म्मणा नीयतेऽन्यत्र मायैषा मम चोत्तमा ॥ शुक्रशोणितसंयोगाज्जायन्ते यदि जन्तवः । अङ्गुल्यश्चरणौ चैव भुजौ शीर्षं कटिस्तथा ॥ पृष्ठं तथोदरञ्चैव दन्तौष्ठपुटनासिका । कर्णौ नेत्रकपोलौ च ललाटं जिह्वया सदा ॥ एतया मायया युक्ता जायन्ते यदि जन्तवः । तस्यैव जीर्य्यते जन्तोर्भुक्तं पीतञ्च वह्निना । अयञ्च स्रवते जन्तुरेषा माया ममोत्तमा ॥ शब्दः स्पर्शश्च रूपञ्च रसो गन्धश्च पञ्चमः । अन्नात् प्रवर्त्तते जन्तुरेषा माया मम प्रिये ! ॥ सर्व्वर्त्तुषु निजाकारः स्थावरे जङ्गमे तथा । तत्त्वं न ज्ञायते तस्य मायैषा मम सुन्दरि ! ॥ आपो विद्यास्तथा भौमा आपो येषु प्रतिष्ठिताः । न च वृद्धिं प्रयान्त्यत्र मायैषा परमा मम ॥ वृष्टौ बहूदकाः सर्व्व पल्वलानि सरांसि च । ग्रीष्मे सर्व्वाणि शुष्यन्ति एतन्मायाबलं मम ॥ हिमवच्छिखरान्मुक्ता नाम्ना मन्दाकिनी नदी । गाङ्गता सा भवेद्गङ्गा मायैषा मम कीर्त्तिता ॥ मेघा गृह्णन्ति सलिलं लवणात् सलिलार्णवात् । वर्षन्ति मधुरं लीके सर्व्वं भायाबलं मम ॥ रोगार्त्ता जन्तवः केचित् भक्षयन्ति महौषधम् । तस्य वीर्य्यं समाश्रित्य मायां तु विसृजाम्यहम् ॥ औषधे दीयमाने तु जन्तुः पञ्चत्वमेति यत् । निर्वीर्य्यमौषधं कृत्वा कालो भूत्वा हराम्यहम् ॥ प्रथमं जायते गर्भः पश्चाज्जायत वै पुमान् । जायते मध्यमं रूपं ततोऽपि जरया पुनः । तत इन्द्रियनाशश्च एतन्मायाबलं मम ॥ एकबीजात् प्रकीर्णाद्वै जायन्ते तानि भूरिशः । तत्रामृतं विसृजामि मायायोगेन माधवि ! ॥ लोक एवं विजानाति गरुडो वहतेऽच्युतम् । भूत्वा वेगेन गरुडो वहाम्यात्मानमात्मना ॥ या एता देवताः सर्व्वा यज्ञभागेन तोषिताः । मायामेतामहं कृत्वा तोषयामि दिवौकसः ॥ लोकाः सर्व्वे विजानन्ति देवा नित्यं मखाशिनः । मायामेतामहं कृत्वा यक्ष्यामि त्रिदशान् सदा ॥ सर्व्वोऽपि यजते लोको यष्टारञ्च बृहस्पतिम् । मायामाङ्गिरसीं कृत्वा याजयामि दिघोकसः ॥ सर्व्वे लोका विजानन्ति वरुणः पाति सागरम् । मायान्तु वारुणीं कृत्वाहं रक्षामि महोदधिम् ॥ सर्व्वे लोका विजानन्ति कुवेरोऽयं धनेश्वरः । कुवेरमायामादाय अहं रक्षामि तद्धनम् ॥ एवं लोका विजानन्ति वृत्रः शक्रेण सूदितः । शाक्रीं मायां समास्थाय मया वृत्रो निसूदितः ॥ एवं लोका विजानन्ति आदित्यश्च ध्रुवो महान् । मेरुं मायामयं कृत्वा वहाम्यादित्यमेव च ॥ एवं चाभाषते लोको जलं किन्नश्यतेऽखिलम् । बडवामुखमास्थाय पिबामि तदहं जलम् ॥ वायुं मायामयं कृत्वा मेधेषु विसृजाम्यहम् । यदिदं भाषते लोकः कुत्रैवं तिष्ठते जलम् ॥ देवा अपि न जानन्ति अमृतं कुत्र तिष्ठति । मम मायानियोगेन तिष्ठते ह्यौषधं वने ॥ लोको ह्येवं विजानाति राजा पालयते प्रजाः । राजमायामहं कृत्वा पालयामि वसुन्धराम् ॥ ये तु वै द्बादशादित्या उदेष्यन्ति युगक्षये । प्रविश्य तानहं भूमे ! मायां लोके सृजाम्यहम् ॥ वर्षञ्च पांशुना भूमिलोकेषु यतते सदा । मायां पांशुमयीं कृत्वा पूरयाम्यखिलं जगत् ॥ वर्षते यत्र सं बर्त्तो धाराभिर्मुषलाकृति । मायां सांवर्त्तकीं गृह्य पूरयाम्यखिलं जगत् ॥ यत् स्वपामि वरारोहे ! शेषस्योपरि वारिणि । अनन्तमायया चाहं धारयामि स्वपामि च ॥ वराहमायामादाय भूमे ! जानामि किन्न वै । देवा यत्र निलीयन्ते सा माया मम कीर्त्तिता ॥ त्वञ्चापि वैष्णवीं मायां कृत्वा जानासि किन्न तत् । धारितासि च सुश्रोणि ! वारान् सप्तदशैव तु ॥ माया तु मम देवीयं कृत्वा ह्येकार्णवां महीम् । मम मायाबलं ह्येतद्येन तिष्ठाम्यहं जले ॥ प्रजापतिं शतं रुद्रं सृजामि च हरामि च । तेऽपि मायां न जानन्ति मम मायाविमो- हिताः ॥ अथ पितृगणाश्चैव य एते सूर्य्यवर्च्चसः । मायां पितृमयीं ह्येतां गृह्णामि हि च तत्त्वतः ॥ किन्तु मायैव सुश्रोणि ! अन्यच्च शृणु सुन्दरि ! ॥” इति वाराहे मायाचक्रम् ॥ * ॥
अथ मायास्तोत्रम् । शौनक उवाच । “शशिध्वजो महाराजः स्तुत्वा मायां गतः कुतः । का वा मायास्तुतिः सूत ! वद तत्त्वविदांवर ! । या त्वत्कथा विष्णुकथा वक्तव्या सा विशुद्धये ॥” सूत उवाच । “शृणुध्वं मुनयः सर्व्वे मार्कण्डेयाय पृच्छते । शुकः प्राह विशुद्धात्मा मायास्तवमनुत्तमम् ॥ तत् शृणुष्व प्रवक्ष्यामि यथाधीतं यथाश्रुतम् । सर्व्वकामप्रदं नॄणां पापतापविनाशनम् ॥” शुक उवाच । “भल्लाटनगरं त्यक्त्वा विष्णुभक्तः शशिध्वजः । आत्मसंसारमोक्षाय मायास्तवमलं जगौ ॥” शशिध्वज उवाच । “ॐ ह्रींकारां सत्त्वसारां विशुद्धां ब्रह्मादीनां मातरं वेदबोध्याम् । तन्वीं स्वाहां भूततन्मात्रकक्षां बन्दे बन्द्यां देवगन्धर्व्वसिद्धैः ॥ लोकातीतां द्वैतभीतां समीडे भूतैर्भव्यां व्याससामासिकार्थैः । नानारूपैर्देवतिर्य्यङ्मनुष्यै- स्तामाधारां ब्रह्मरूपां नमामि ॥ यस्या भाषा त्रिजगद्भाति भूतै- र्न भात्येतत्तदभावे विधातुः । विद्वद्गीतां कालकल्लोललोलां नीलापाङ्गीं क्षिप्तसंसारदुर्गाम् ॥ पूर्णां प्राप्यां द्वैतलभ्यां शरण्या- माद्ये शेषे मध्यतो या विभाति । कालो दैवं कर्म्म सोपाधयो ये तस्यां तासां तां विशिष्टां नमामि ॥ भूमौ गन्धो रसताप्सु प्रतिष्ठा रूपं तेजस्येव वायौ स्पृशत्वम् । खे शब्दो वै यद्भिदा भाति नाना तामाद्यां तां विश्वरूपां नमामि ॥ साबित्री त्वं ब्रह्मरूपा भवानी भूतेशस्य श्रीपतेः श्रीस्वरूपा । शची शक्रस्यापि नाकेश्वरस्य पत्नी श्रेष्ठा भासि माये ! जगत्सु ॥ बाल्ये बाला युवती योवने त्वं वार्द्धक्ये या स्थविरा कालकल्पा । नानाकारैर्यागयोगैश्च धर्म्मो भक्त्या वै त्वं कामवज्रा विभासि ॥ वरेण्या त्वं वरदा लोकसिद्धा साध्वी धन्या लोकमान्या सुकन्या । चण्डी दुर्गा कालिका कालिकाख्या नानादेशे रूपवेशैर्विभासि ॥ तव चरणसरोजं देवि ! देवादिवन्द्यं यदि हृदयसरोजे भावयन्तीह भक्त्या । शुककृतमतिशुद्धं हृत्सरोजे स्मरन्ति श्रुतियुगकुहरे वा संश्रुतं धर्म्मसम्पत् ॥ जनयति जगदाद्ये सर्व्वसिद्धिञ्च तेषाम् ॥ मायास्तवमिदं पुण्यं शुकदेवेन भाषितम् । मार्कण्डेयादयश्चापि सिद्धिं लेभे शशिध्वजः ॥ कोकामुखे तपस्तप्त्वा हरिं ध्यात्वा वना- न्तरे । सुदर्शनेन निहतो वैकुण्ठशरणं ययौ ॥” इति श्रीकल्किपुराणेऽनुभागवते भविष्ये माया- स्तव ऊनत्रिंशोऽध्यायः ॥ (शक्तिः सामर्थ्यं वा । यथा, ऋग्वेदे । ४ । ३ । २१ । “दासानामिन्द्रो मायया ।” “मायया स्वकीयया शक्त्या ।” इति तद्भाष्ये सायणः ॥)



Correction: