वाचस्पत्यम्
मारण || न० मृ—णिच्—भावे ल्युट् । १ बये अमरः । करणे ल्युट् । वैरिबधसाधने तन्त्रोक्ते अभिचारकर्मभेदे च ।
शब्दकल्पद्रुमः
मारणं || क्ली (मार्य्यते इति । मृ + णिच् + भावे ल्युट् ।)
वधः । इत्यमरः । २ । ८ । ११४ ॥ (यथा, मनौ । ५ । ३८ । “यावन्ति पशुरोमाणि तावत्कृत्वो ह मारणम् । वृथापशुघ्नः प्राप्नोति प्रेत्य जन्मनि जन्मनि ॥”)
अभिचारविशेषः । यथा, —
“एवन्तु मारणं देवि ! विशेषात् कथयामि ते । सान्तं वह्निसमायुक्तं वामनेत्रविभूषितम् ॥ कूर्च्चयुग्मं ततो देवि ! अमुकं मारय मारय । चतुर्दशाक्षरो मन्त्रो स्वाहान्तः शत्रुनाशकः ॥ खदिराङ्गारमादाय कुजाष्टम्यां विशेषतः । लेखयेत् पुत्तलीं शत्रुस्वरूपां लौहपत्रके ॥ निशायां मस्तके नेत्रे ललाटे हृदये करे । नाभौ गुह्ये कटौ पृष्ठे क्रमोक्तेन पदद्वये ॥ मन्त्रवर्णान् समालिख्य प्रतिष्ठां तत्र कारयेत् । संहारमुद्रां बद्ध्वा तु ध्यायेद्देवीं जयप्रदाम् ॥ दीर्घाकारां कृष्णवर्णां सदार्द्धस्तनमस्तकाम् । नृमुण्डयुगलं हस्तं चर्व्वयन्तीं दिगम्बरीम् ॥ शत्रुनाशकरीं देवीं ध्यायेत् शत्रुक्षयाय च । एवं ध्यात्वेष्टिकाचूर्णैर्व्वामहस्तेन शङ्करि ! ॥ ॐशत्रुनाशकर्य्यै नमः इति दत्त्वा महेश्वरि ! । हरिद्राचूर्णसहितां धारां दद्यादनेन तु ॥ अमुकस्य शोणितं पिब पिबेति तत्परम् । मांसं खादय खादय ह्रीँ नम इति मन्त्रम् ॥ मध्याह्ने मध्यरात्रौ तु पूजयित्वा शताष्टकम् । जपेदेकादशाहे च रोगः स्यान्नात्र संशयः ॥ दण्डाधिकैकविंशाहे मृत्युरेव रिपोर्भवेत् ॥ * ॥
अथवान्यप्रकारेण शत्रुक्षयमहं वदे । पुंगोशकृत् समादाय पूजयेदुष्णवारिणा ॥ विपरीतक्रमेणैव जपपूजादिकं चरेत् । महादेवाय नम इति पुंगोशकृत् समाहरेत् ॥ शिवाय नम इति मन्त्रेण घटनञ्च समाचरेत् । पशुपतये नम इति प्राणान् संस्थापयेत्ततः ॥ लौहपात्र महेशानि ! खदिराङ्गारयोगतः । शत्रुप्रतिकृतिं लिख्य तत्र संस्थापयेत् शिवम् ॥ ततो ध्यायेन्महारुद्रं ध्यानन्तु सुसमाहितः । शत्रोर्व्वक्षःस्थितं रुद्रं ज्वलदग्निसमप्रभम् ॥ वामहस्तधरं केशं दक्षिणं प्राणकर्षणम् । नरचर्म्माम्बरं देवं महाव्यालादिवेष्टितम् ॥ पिनाकधृक् इहागच्छागच्छ इत्यादिनावाह्य यत्नतः । शूलपाणये नम इति स्नापयेत् साधकोत्तमः ॥ महेश्वराय नम इति पाद्यादिना प्रपूजयेत् । ईशानादिस्तथा मूर्त्तिर्व्युत्क्रमेण प्रपूजयेत् ॥ अग्निकोणादिपर्य्यन्तं पूर्ब्बरीत्या महेश्वरि ! । नमः शिवायेति मूलमष्टाविंशति संजपेत् । हुँ क्षमस्वेति वामेन करेण तु विसर्ज्जयेत् ॥ अजित केशव विष्णो हरे सत्य जनार्द्दन । हंस नारायण स्वाहा मन्त्रमेव सकृज्जपेत् ॥ हुँ नमो भगवते वासुदेवाय स्वाहा नम इत्यपि सकृज्जपेत् । एवमेकादशाहेन शत्रूच्छेदनमञ्जसा । अवश्यं जायते देवि ! सत्यं सत्यं त्रिलोचने ! ॥” इति योगिनीतन्त्रे पूर्ब्बखण्डे ४ पटलः ॥ अपि च । “गृध्रास्थिञ्च गवास्थिञ्च मूत्रनिर्म्माल्यमेव च । अरेर्यो निखनेत् द्वारे पञ्चत्वमुपयाति सः ॥” इति गारुडे १८६ अध्यायः ॥