संस्कृत-शब्दकोशः

मारण मारिचिक

मारि

वाचस्पत्यम्

मारि(री) ||‍ स्त्री मृ—णिच्—इन् । १ मारणे । वा ङीप् । “मारीभये राजभये” इति वटुकस्तवः । ङीवन्तः २ दुर्गाशक्तिभेदे मेदि० ।


शब्दकल्पद्रुमः

मारिः || स्त्री (मार्य्यते इति । मृ + णिच् + इन् ।)
मारणम् । वर्षः । इति मेदिनी । रे, ७७ ॥ जनक्षयः । तत्पर्य्यायः । मारकः २ मरकः ३ उत्पातः ४ । इति त्रिकाण्डशेषः ॥



Correction: