वाचस्पत्यम्
मारिष || पु० रिष—हिंसायाम् क निषेधार्थकमाशब्देन स० । नाट्योक्तौ १ आर्य्ये हिंसानिवारकतया तस्य तथात्वम् । २ तण्डुलीयशाके च अमरः । ३ दक्षमातरि स्त्री मेदि० दाप्
शब्दकल्पद्रुमः
मारिषः || पुं, (मर्षति दोषानिति । मृष + अच् । निपातनात् सिद्धम् । यद्वा, मा रिष्यति हिनस्ति कञ्चिदपीति । रिष + कः ।)
नाट्योक्तौ श्रेष्ठः । इत्यमरः । १ । ७ । १४ ॥ (क्वचित् पुराणा- दावपि । यथा, देवीभागवते । १ । ११ । ६५ । “साहार्य्य ते करिष्यामि मन्त्रशक्त्या महा- मते ! । भविता यदि संग्रामस्तव चेन्द्रेण मारिष ! ॥” तथा च महाभारते । ७ । २६ । १२ । “दार्य्यमाणाञ्चमूं दृष्ट्वाभगदत्तेन मारिष ! ॥”)
तण्डुलीयशाकविशेषः । मरसा इति हिन्दी भाषा । तत्पर्य्यायः । कन्धरः २ मार्षिकः ३ । (शाकार्थे पर्य्यायो गुणाश्च यथा ॥ [अथ श्वेत- मरुसा । लोहितमरुसा नवडा इति च लोके ।] “मारिषो वाष्पको मार्षः श्वेतो रक्तश्च स स्मृतः । मारिषो मधुरः शीतो विष्टम्भी पित्तनुद्गुरुः ॥ वातश्लेष्मकरो रक्तपित्तनुद्विषमग्निजित् । रक्तमार्षो गुरुर्नाति सक्षारो मधुरः सरः । श्लेष्मलः कटुकः पाके स्वल्पदोष उदीरितः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)