शब्दकल्पद्रुमः
मारिषा || स्त्री (मारिष + टाप् ।)
दक्षमाता । इति मेदिनी । षे, ४४ ॥ (यथा, मत्स्यपुराणे । ४ । ४९ । “सोमकन्याभवत् पत्नी मारिषा नाम विश्रुता । तेभ्यस्तु दक्षमेकं सा पुत्त्रमग्र्यमजीजनत् ॥” अस्या जन्मवृत्तान्तो यथा, विष्णुपुराणे । प्रथमांशे १५ अध्याये । “कण्डुर्नाम मुनिः पूर्ब्बमासीद्वेदविदांवरः । सुरम्ये गोमतीतीरे स तेपे परमं तपः ॥ तत्क्षोभाय सुरेन्द्रेण प्रम्लोचाख्या वराप्सराः । प्रयुक्ता क्षोभयामास तमृषिं सा शुचिस्मिता ॥” इत्यारभ्य —
“यावदित्थं स विप्रर्षिस्तां ब्रवीति सुमध्यमाम् । तावद्गलत्स्वेदजला सा बभूवातिवेपथुः ॥ प्रवेपमाणां सततं स्विन्नगात्रलतां सतीम् । गच्छ गच्छेति सक्रोधमुवाच मुनिसत्तमः ॥ सा तु निर्भर्त्सिता तेन विनिष्क्रम्य तदाश्रमात् । आकाशगामिनी स्वेदं ममार्ज्ज तरुपल्लवैः ॥ वृक्षाद्वृक्षं ययौ बाला तदग्रारुणपल्लवैः । निर्मार्ज्जमाणा गात्राणि गलत्स्वेदजलानि वै ॥ ऋषिणा यस्तदा गर्भस्तस्या देहे समाहितः । निर्ज्जगाम स रोमाच्च स्वेदरूपी तदङ्गतः ॥ तं वृक्षा जगृहुर्गर्भं एकं चक्रे तु मारुतः । मया चाप्यायितो गोभिः स तदा ववृधे शनैः ॥ वृक्षाग्रगर्भसंभूता मारिषाख्या वरानना । तां प्रदास्यन्ति वो वृक्षाः कोप एष प्रशाम्यताम् ॥ कण्डोरपत्यमेवं सा वृक्षेभ्यश्च समुद्गता । ममापत्यं तथा वायोः प्रम्लोचातनया च सा ॥” शूरस्य पत्नी । यथा, भागवते । ९ । २४ । २७ । “देवमीढस्य शूरस्य मारिषा नाम पत्न्य- भूत् ॥”)