वाचस्पत्यम्
मारी is an alternate of मारि. मारि(री) || स्त्री मृ—णिच्—इन् । १ मारणे । वा ङीप् । “मारीभये राजभये” इति वटुकस्तवः । ङीवन्तः २ दुर्गाशक्तिभेदे मेदि० ।
शब्दकल्पद्रुमः
मारी || स्त्री (मारि + कृदिकारादिति पक्षे ङीष् ।)
चण्डी । जनक्षयः । इति मेदिनी । रे, ७६ । माहेश्वरी शक्तिः । यथा, —
“मारी त्रिशूलेन जघान चान्यान् खट्वाङ्गपातैरपरांश्च कौशिकी ।” इति वामने ५२ अध्यायः ॥