शब्दकल्पद्रुमः
मारुताशनः || पुं, (मारुतोऽशनमस्य । अश्नातीति । अश + ल्युः । मारुतानां अशनो भक्षकः ।)
सर्पः । पवनाशन इत्यमरदर्शनात् । (यथा, महाभारते । ५ । १०६ । १३ । “भक्तः प्रगृह्य मूर्द्ध्ना वै बाहुभ्यां संशितव्रतः । स्थितः स्थाणुरिवाभ्यासे निश्चेष्टो मारुता- शनः ॥”)
वायुमात्रभक्षके, त्रि ॥ (कार्त्तिकेयसैनिक- विशेषः । यथा, महाभारते । ९ । ४५ । ६० । “विद्युताक्षो धनुर्वक्त्रो जाठरो मारुताशनः ॥”)