संस्कृत-शब्दकोशः

मारुताशन मार्क

मारुति

शब्दकल्पद्रुमः

मारुतिः || पुं, (मारुतस्यापत्यं पुमान् । मरुत + “अत इञ् ।” ४ । १ । ९५ । इति इञ् ।)
हनूमान् । इति शब्दरत्नावली ॥ (यथा, रघौ । १२ । ६० । “प्रवृत्तावुपलब्धायां तस्याः सम्पातिदर्शनात् । मारुतिः सागरं तीर्णः संसारमिव निर्ममः ॥”)
भीमसेनः । इति जटाधरः ॥ (यथा, देवी- भागवते । २ । ७ । २१ । “तच्छ्रुत्वा वचनं भ्रातुर्ज्येष्ठस्यामिततेजसः । संग्रहेऽस्य महाबाहुर्मारुतिः कुपितोऽब्रवीत् ॥”)



Correction: