संस्कृत-शब्दकोशः

मार्कर मार्ग

मार्कव

वाचस्पत्यम्

मार्कव ||‍ पु० मारयति क्विप्—मारि केशक्लेशे कूयते कू अच् । भृङराजे (केशरिया) अमरः ।


शब्दकल्पद्रुमः

मार्कवः || पुं, भृङ्गराजः । इत्यमरः । २ । ४ । १५१ । मर्कति केशरञ्जनार्थं गच्छति मर्कवः । मर्क सर्पे नाम्नीति अवः निपातनाद्वृद्धिः । मार्कवोऽन्तःस्थचतुर्थान्तः मर्केर्विशादित्वाद्बः पृषोदरादित्वांददागमो दीर्घश्चेति परेण साधि- तत्वात् । (यथा, सुश्रुते चिकित्सास्थाने । १७अः । मर्क सर्पे नाम्नीति अवः निपातनाद्वृद्धिः । मार्कवोऽन्तःस्थचतुर्थान्तः मर्केर्विशादित्वाद्बः पृषोदरादित्वांददागमो दीर्घश्चेति परेण साधि- तत्वात् । (यथा, सुश्रुते चिकित्सास्थाने । १७अः । “स्यान्मार्कवस्य च रसेन निहन्ति तैलं नाडीं कफानिलकृतामपचीं व्रणांश्च ।”)
मार्करो रेफान्त इति केचित् । इति तट्टीकायां भरतः ॥ (अथानयोः पर्य्याया यथा, —
“भृङ्गराजः केशराजो भृङ्गः पत्तङ्गमार्कवम् । इति वैद्यकरत्नमालायाम् ॥ भृङ्गराजो भृङ्गरजो मार्कवो भृङ्ग एवच । अङ्गारकः केशराजो भृङ्गारः केशरञ्जनः ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ मार्करः केशराजश्च भृङ्गराजो निगद्यते ॥” इति गारुडेऽष्टाधिकद्विशततमेऽध्याये ॥)



Correction: