वाचस्पत्यम्
मार्ग || अन्वेषणे वा चु० उभ० पक्षे भ्वा० प० सक० सेट् । मार्ग- थति—ते मार्गति । अममार्गत् त । अमार्गीत् ।
वाचस्पत्यम्
मार्ग || पु० मृज—शुद्धौ—मार्ग—अन्वेषणे वा घञ् । १ पथि अमरः । तद्भेदा यथा “त्रिंशद्धनूंषि विस्तीर्णो देशमार्गस्तु तैः कृतः । विंशद्धनुर्ग्राममार्गः सीमामार्गो दशैव तु । धनूंषि दश विस्तीर्णः श्रीमान् राजपथः स्मृतः । नृवाजिरथनागा- नामसम्बाधः सुसञ्चरः । धनूंषि चैव चत्वारि शाखार- थ्यास्तु निर्म्मिताः । त्रिकराश्चोपरथ्यास्तु द्विकरावो- परथ्यका । जङ्घापथश्चतुष्पादस्त्रिपादश्च गृहान्तरम् । व्रतिपादस्त्वर्द्धपादः प्राग्वंशः पादकः स्मृतः । अवकरः परिवारः पादमात्रः समन्ततः । प्रावृट्काले तु प्रावृत्ती कर्त्तव्या अन्यथा नहि” देवीपु० ।
वाचस्पत्यम्
मार्ग || संस्कारे सर्पणे च चुरा० उम० सक० सेट् । मार्गयति अममार्गत् त ।
शब्दकल्पद्रुमः
मार्ग || क संस्कारे । सर्पणे । इति कविकल्प- द्रुमः ॥ (चु०-पर०-सक०-सेट् ।)
क मार्गयति । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
मार्ग || कि अन्वेषे । इति कविकल्पद्रुमः ॥ (चु०-पक्षे भ्वा०-पर०-सक०-सेट् ।)
अन्वेषः प्रतिसन्धा- नम् । कि मार्गयति मार्गति गुणं गुणी । मार्गन्तां हे देहभावानित्यात्मनेपदं गणकृता- नित्यत्वात् । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
मार्गः || पुं, (मार्ग्यते संस्क्रियते पादेन मृग्यते गमनायान्विष्यते इति वा । मार्ग वा मृग + + घञ् ।)
पन्थाः । इत्यमरः । २ । १ । १५ ॥ तत्परिमाणं यथा, —
“त्रिंशद्धनूंषि विस्तीर्णो देशमार्गस्तु तैः कृतः । विंशद्धनुर्ग्राममार्गः सीमामार्गो दशैव तु ॥ धनूंषि दशविस्तीर्णः श्रीमान्राजपथः कृतः । नृवाजिरथनागानामसम्बाधः सुसञ्चरः ॥ धनूंषि चैव चत्वारि शाखारथ्यास्तु निर्म्मिताः । त्रिकराश्चोपरथ्यास्तु द्विकराप्युपरक्षका ॥ जङ्घापथश्चतुष्पादस्त्रिपादश्च गृहान्तरम् । व्रतीपादस्त्वर्द्धपादः प्राग्वंशः पादकः स्मृतः ॥ अवकरः परिवारः पादमात्रः समन्ततः । प्रावृट्काले तु प्रावृत्ती कर्त्तव्या अन्यथा नहि ॥ इति देवीपुराणे त्रैलोक्याभ्युदये गोपुरद्बार- लक्षणाध्यायः ॥ * ॥
(यथा, महाभारते । ३ । ६७ । १७ । “एका बालानभिज्ञा च मार्गाणामतथोचिता । क्षुत्पिपासापरीताङ्गी दुष्करं यदि जीवति ॥”)
गुदम् । तत्पर्य्यायः । पायुः २ तनुह्रदः ३ । इति त्रिकाण्डशेषः ॥ अपानम् ४ । इत्यमरः । २ । ६ । ७३ ॥ मृगमदः । (मृगस्येदम् । मृग + अण् । मृगसम्बन्धिनि, त्रि । यथा, सुश्रुते । शारीरे ३ अः । “मार्गाद्बिक्रान्तजङ्घालं सदा वनचरं सुतम् ।” यथा च मार्कण्डेये । ३२ । १७ ॥ “तद्बर्ज्यं सलिलं तात ! सदैव पितृकर्म्मणि । मार्गमाविकमौष्ट्रञ्च सर्वमैकशफञ्च यत् ॥” (मृगो मृगशिरास्तद्युक्ता पौर्णमास्यत्र । मृग् + अण् ।)
मार्गशीर्षमासः । अन्वेषणम् । इति मेदिनी ॥ गे, १७ । मृगशिरो नक्षत्रम् । इति हेमचन्द्रः ॥ विष्णुः । इति तस्य सहस्रनाम स्तोत्रम् ॥ (यथा, महाभारते । १३ । १९९ । ५३ । “विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः ॥”)