वाचस्पत्यम्
मालसी || स्त्री मालं मलनं जटादिना दुष्टत्वं स्यति सी—क गौरा० ङीष् । १ केशपुष्टिकारके वृक्षे शब्दच० । २ रागिणी- भेदे च मङ्गीतदा० ।
शब्दकल्पद्रुमः
मालसी || स्त्री (मल + स्वार्थे अण् । मलं स्यति- नाशयति । सो + डः । ङीप् ।)
केशपुष्पवृक्षः । यथा, — ‘मालसी दुर्गपुष्पी च बालाक्षी केशधारिणी ॥’ इति शब्दचन्द्रिका ॥ रागिणीविशेषः । सा तु मालवरागस्य पत्नी । यथा, —
“धानुषी मालसी रामकिरी च सिन्धुडा तथा । अश्ववारी भैरवी च मालवस्य प्रिया इमाः ॥” इति हारीतः ॥ मतान्तरे मेघरागस्य पत्नी । यथा, —
“ललिता मालसी गौडी नाटी देवकिरी तथा । मेघरागस्य रागिण्यो भवन्तीमाः सुमध्यमाः ॥” तस्याः स्वरूपं यथा, —
“नीलारविन्दस्य दलानि बाला विधारयन्ती तनुदेहयष्टिः । मालूरवृक्षस्य तले निषण्णा शोणा मृदुर्मालसिका प्रदिष्टा ॥” तस्या गानसमयो यथा, —
“इन्द्रोत्थानात् समारभ्य यावद्दुर्गामहोत्सवम् । गेया भवेद्बुधैर्नित्यं मालसी सा मनोहरा ॥” अपि च । “गान्धारी दीपिका चैव कल्याणी पुरवी तथा । अश्ववारी कानडा च गौरी केदारपाहिडा ॥ माधवी मालसी नाटी भूपाली सिन्धुडा तथा । सायाह्ने रागिणीरेताः प्रगायन्ति चतुर्द्दश ॥” इति सङ्गीतदामोदरः ॥