वाचस्पत्यम्
माला || स्त्री मल—संज्ञायां कर्त्तरि घञ् । १ चेण्यां हेम- जपसंख्यार्थे रुद्राक्षादिवीजसघात्मके २ माल्यभेदे च ।
शब्दकल्पद्रुमः
माला || स्त्री (माति मानहेतुर्भवतीति । मा + “ऋज्रेन्द्राग्रवज्रे ।” उणा० २ । २८ । इति रन् रस्य लत्वम् टाप् च । यद्वा, मां शोभां लाति इति । ला + कः टाप् ।)
श्रेणी । तत्पर्य्यायः । राजिः २ लेखा ३ तती ४ वीची ५ आली ६ आवलिः ७ पङ्क्तिः ८ धारणी ९ । इति हेमचन्द्रः । ३ । ३१५ । मूर्द्ध्नि न्यस्तपुष्पदाम । अन्यत्राप्युपचारात् ॥ तत्पर्य्यायः । माल्यम् २ स्रक् ३ । इत्यमरः । २ । ६ । १३५ ॥ मालिका ४ मालाका ५ मालका ६ । इति शब्दरत्नावली ॥ गणनिका ७ गुणा- न्तिका ८ । इति वराहपुराणम् ॥ सा त्रिविधा यथा, —
“माला तु त्रिविधा देवि ! वर्णाक्षपर्व्वभेदतः ।” इति मत्स्यसूक्तवचनम् ॥ * ॥
अथ मालानिर्णयः । तत्र करमाला । सनत्- कुमारसंहितायाम् । ‘तर्जनी मध्यमानामा कनिष्ठा चेति ताः क्रमात् ॥ तिस्रोऽङ्गुल्यस्त्रिपर्व्वाणो मध्यमा चैकपर्व्विका । पर्व्वद्वयं मध्यमाया मेरुत्वेनोपकल्पयेत् ॥ क्रममाह । अनामामध्यमारभ्य कनिष्ठादित एव च । तर्जनीमूलपर्य्यन्तं दशपर्व्वसु संजपेत् ॥ तथा, — अनामामूलमारभ्य कनिष्ठादित एव च । तर्जनीमध्यपर्य्यन्तमष्टपर्व्वम संजपेत् ॥ एतद्वचनन्तु अष्टोत्तरशतादिविषयम् ॥ * ॥
शक्तिविषये पुनः । श्रीक्रमे । अनामिकात्रयं पर्व्व कनिष्ठादित्रिपर्व्विका । मध्यमायाश्च त्रितयं तर्जनीमूलपर्व्वणि । तर्जन्यग्रे तथा मध्ये यो जपेत् स तु पापकृत् ॥ हंसपारमेश्वरे । पर्व्वद्बयमनामायाः परिवर्त्तेन वै क्रमात् । पर्व्वत्रयं मध्यमायास्तर्जन्येकं समाहरेत् ॥ पर्व्वद्बयन्तु तर्जन्या मेरुं तद्बिद्धि पार्व्वति ! । शक्तिमाला समाख्याता सर्व्वतन्त्रप्रदीपिका ॥ तथा । अनामामूलमारभ्य प्रादक्षिण्यक्रमेण च । मध्यमामूलपर्य्यन्तमष्टपर्व्वसु संजपेत् ॥ * ॥
श्रीविद्यायामयं विशेषः । अनामाया मध्यमाया मूलाग्रञ्च द्वयं द्बयं । कनिष्ठायाश्च तर्जन्यास्त्रयं पर्व्व सुरेश्वरि ! ॥ अनामामध्यमायाश्च मेरुः स्याद्द्वितयं शुभम् । प्रदक्षिणक्रमाद्देवि ! जपेत्त्रिपुरसुन्दरीम् ॥” इति यामलवचनात् ॥ मुण्डमालातन्त्रे । “अनामिका द्वयं पर्व्वप्रादक्षिण्यक्रमेण तु । तर्जनीमूलपर्य्यन्तं करमाला प्रकीर्त्तिता ॥ कनिष्ठामूलमारभ्य प्रादक्षिण्यक्रमेण च । तर्जनीमूलपर्य्यन्तमष्टपर्व्वसु संजपेत् ॥” इदमपि अष्टोत्तरशतादिविषयम् ॥ * ॥
अङ्गुलीर्न वियुञ्जीत किञ्चिदाकुञ्चिते तले । अङ्गुलीनां वियोगाच्च छिद्रे च स्रवते जपः ॥ अन्यत्रापि । अङ्गुल्यग्रेषु यज्जप्तं यज्जप्तं मेरुलङ्घने । पर्व्वसन्धिषु यज्जप्तं तत्सर्व्वं निष्फलं भवेत् ॥ गणनाविधिमुल्लङ्घ्य यो जपेत्तज्जपं यतः । गृह्णन्ति राक्षसास्तेन गणयेत् सर्व्वथा बुधः ॥ तत्राङ्गुलिजपं कुर्व्वन् साङ्गुष्ठाङ्गुलिभिर्जपेत् । साङ्गुष्ठेन विना कर्म्म कृतं तदफलं भवेत् ॥ विश्वसारे । जपसंख्या तु कर्त्तव्या नासंख्यातं जपेत् सुधीः । नसंख्याकारकस्यास्य सर्व्वं भवति निष्फलम् ॥ तन्त्रे । हृदये हस्तमारोप्य तिर्य्यक् कृत्वा कराङ्गुलीः । आच्छाद्य वाससा हस्तौ दक्षिणेन सदा जपेत् ॥ इति करमाला ॥ * ॥
जपसंख्यायां निषिद्धद्रव्यमाह यामले । नाक्षतैर्हस्तपर्व्वैर्वा न धान्यैर्नच पुष्पकैः । न चन्दनैर्मृत्तिकया जपसंख्यां न कारयेत् ॥ विहितद्रव्यमाह । लाक्षाकुशीदसिन्दूरगोमयञ्च करीषकम् । एभिर्निर्म्माय गुटिकां जपसंख्यान्तु कारयेत् ॥ अथ वर्णमाला । सनत्कुमारे । क्रमोत्क्रमगतैर्मालामातृकार्णैः क्षमेरुकैः । सबिन्दुकैः साष्टवर्गैरन्तर्यजनकर्म्मणि ॥ आदिकु चु टु पु यु शवोऽष्टौ वर्गाः प्रकीर्त्तिताः । तद्यंथा । अकारादिवर्णान् सबिन्दून् प्रत्येकं कृत्वा शतं संजप्य अकारादीनां वर्णानां कवर्गादीनाञ्चान्तिमं वर्णं सानुस्वारं कृत्वा पूर्ब्ब- मुच्चार्य्य शेषाष्टवारमन्त्रजपः कार्य्यः । अनेन प्रकारेण अष्टोत्तरशतसंख्यो जपो भवति । अन्तर्यजनेत्युपलक्षणम् । तथा । सबिन्दुं वर्णमुच्चार्य्य पश्चान्मन्त्रं जपेद्बुधः । अकारादिक्षकारान्तं बिन्दुयुक्तं विभाव्य च । वर्णमाला समाख्याता अनुलोमविलोमतः ॥ इति नारदवचनात् । विशुद्धेश्वरे । अनुलोमविलोमेन वर्गाष्टकविभेदतः । मन्त्रेणान्तरितान् वर्णान् वर्णेनान्तरितान् मनून् । कुर्य्याद्वर्णमयीं मालां सर्व्वतन्त्रप्रकाशिनीम् ॥ * ॥
मालिनीविजये सूत्रनियमः । अन्तर्विद्रुमभासमानभुजगीसूत्रोतवर्णोज्ज्वलाम् । आरोहप्रतिरोहतः शतमयीं वर्गाष्टकाष्टोत्त- राम् ॥ इति वर्णमाला ॥ * ॥
अथाक्षमाला । तत्र मालायां मणिनिर्णयः । पद्मबीजादिभिर्माला बहिर्यागे शृणुष्व ताः । रुद्राक्षशङ्खपद्माक्षपुत्त्रजीवकमौक्तिकैः ॥ स्फाटिकैर्मणिरत्नैश्च सुवर्णैर्विद्रुमैस्तथा । राजतैः कुशमूलैश्च गृहस्थस्याक्षमालिका ॥ * ॥
अङ्गुलीगणनादेकं पर्व्वण्यष्टगुणं भवेत् । पुत्त्रजीवैर्दशगुणं शतं शङ्खैः सहस्रकम् ॥ प्रबालैर्मणिरत्नैश्च दशसाहस्रकं मतम् । तदेव स्फाटिकैः प्रोक्तं मौक्तिकैर्लक्षमुच्यते ॥ पद्माक्षैर्द्दशलक्षं स्यात् सौवर्णैः कोटिरुच्यते । कुशग्रन्थ्या कोटिशतं रुद्राक्षैः स्यादनन्तकम् ॥ सर्व्वैर्व्विरचिता माला नृणां मुक्तिफलप्रदा । कालिकापुराणे । रुद्राक्षैर्व्वा यदि जपेत् इन्द्राक्षैः स्फाटिकैस्तथा । नान्यन्मध्ये प्रयोक्तव्यं पुत्त्रजीवादिकञ्च यत् ॥ यद्यन्यत्तु प्रयुञ्जीत मालायां जपकर्म्मणि । तस्य कामञ्च मोक्षञ्च न ददाति प्रियङ्करी ॥ मुण्डमालायाम् । श्मशानधुस्तुरैर्माला ज्ञेया धूमावतीविधौ । नराङ्गुल्यस्थिभिर्माला ग्रथिता सर्व्वकामदा ॥ नाड्या संग्रथनं कार्य्यं रक्तेन वाससा प्रिये ! । सदा गोप्या प्रयत्नेन जनन्या जारवत् प्रिये ! ॥ कामनाविशेषे तु । पद्माक्षैर्व्विहिता माला शत्रूनाशकरी मता । कुशग्रन्थिमयी माला सर्व्वपापप्रणाशिनी ॥ पुत्त्रजीवफलैः कॢप्ता कुरुते पुत्त्रसम्पदम् । निर्म्मिता रूप्यमणिभिर्जपमालेप्सितप्रदा । प्रबालैर्विहिता माला प्रयच्छेत् विपुलं धनम् ॥ भैरवीविद्यायान्तु वाराहीतन्त्रे । सुवर्णमणिभिर्म्मालां स्फाटिकीं शङ्खनिर्म्मि- ताम् । प्रबालैरेव वा कुर्य्यात् पुत्त्रजीवं विवर्ज्जयेत् । पद्माक्षञ्चैव रुद्राक्षमिन्द्राक्षञ्च विशेषतः ॥ * ॥
त्रिपुरामन्त्रजपादौ तु रक्तचन्दनबीजादिभि- रतिप्रशस्ता । तथा च तन्त्रराजे । रक्तचन्दनमाला तु भोगदा मोक्षदा भवेत् ॥ तथा । वैष्णवे तुलसीमाला गजदन्तैर्गजानने । त्रिपुराया जपे शस्ता रुद्राक्षै रक्तचन्दनैः ॥ * ॥
कुमारीकल्पे । रुद्राक्षैः शक्तिमन्त्रञ्च मन्त्री यः प्रजपेत् प्रिये ! । स दुर्गतिमवाप्नोति निष्फलस्तस्य तज्जपः ॥ कालिका च्छिन्नमस्ता च त्रिपुरा तारिणी तथा । एताः सर्व्वा न दुष्यन्ति जपे रुद्राक्षमालया ॥ दिवा नैव प्रजप्तव्यं रुद्राक्षमालयापि च । पुरश्चर्य्यामृते चात्र दूषणन्तु वरानने ! ॥ महाशङ्खमयी माला नीलसारस्वते विधौ । नृललाटास्थिखण्डेन रचिता जपमालिका ॥ महाशङ्खमयी माला ताराविद्याजपे प्रिये ! । कर्णनेत्रान्तरालास्थि महाशङ्खः प्रकीर्त्तितः ॥ मणिनियमस्तु मुण्डमालायाम् । अन्योन्यसमरूपाणि नातिस्थूलकृशानि च । कीटादिभिरदुष्टानि न जीर्णानि नवानि वै ॥ तथा गौतमीये । पञ्चाशल्लिपिभिर्माला विहिता सर्व्वकर्म्मसु । अकारादिक्षकारान्ता वर्णमाला प्रकीर्त्तिता ॥ क्षार्णं मेरुमुखं तत्र कल्पयेन्मुनिसत्तम ! । अनया सर्व्वमन्त्राणां जपः सर्व्वसमृद्धिदः ॥ * ॥
चामुण्डातन्त्रे । नित्यं जपं करे कुर्य्यात् न तु काम्यमबोधनात् । काम्यमपि करे कुर्य्यात् मालाभावेऽपि सुन्दरि ! ॥ तेन मालायाः प्राधान्यम् ॥ * ॥
कामनाभेदे तु गौतमीये । समासेनाक्षसूत्रस्य विधानमिह कथ्यते । पञ्चविंशतिभिर्मोक्षं त्रिंशद्भिर्धनसिद्धये ॥ सर्व्वार्थाः सप्तविंशत्या पञ्चदश्यभिचारके । पञ्चाशद्भिः काम्यसिद्धिः स्यात्तथा चतुरुत्तरैः । अष्टोत्तरशतैः सर्व्वसिद्धिरुक्ता मनीषिभिः ॥ अथ मालासंस्कारः । तत्र सनत्कुमारीये । ‘कार्पाससम्भवं सूत्रं धर्म्मकामार्थमोक्षदम् । तच्च विप्रेन्द्रकन्याभिर्निर्म्मितञ्च सुशोभनम् ॥’ यद्वा । ‘शुक्लं रक्तं तथा कृष्णं पट्टसूत्रमथापि वा । शान्तिवश्याभिचारेषु मोक्षैश्वर्य्यजयेषु च ॥ शुक्लं रक्तं तथा पीतं कृष्णं वर्णेषु च क्रमात् । सर्व्वेषामेव वर्णानां रक्तं सर्व्वेप्सितप्रदम् ॥ आश्रमेषु तथा चैवं रक्तं सर्व्वसुसिद्धिदम् । त्रिगुणं त्रिगुणीकृत्य ग्रथयेत् शिल्पशास्त्रतः ॥ एकैकं मातृकावर्णं सतारं प्रजपन् सुधीः । मणिमादाय सूत्रेण ग्रथयेन्मध्यमध्यतः ॥ ब्रह्मग्रन्थिं विधायेत्थं मेरुञ्च ग्रन्थिसंयुतम् । ग्रथयित्वा पुरो मालां ततः संस्कारमारभेत् ॥ कस्यचिन्मते मूलविद्यया ग्रथयेत् । तथा च एकवीराकल्पे । ‘मातृकामन्त्रतो ग्रन्थिं विद्यया वाथ कारयेत् । सुवर्णादिगुणैर्वापि ग्रथयेत् साधकोत्तमः ॥ ब्रह्मग्रन्थिं ततो दद्यान्नागपाशमथापि वा । कवचेनावबध्रीयान्मालां ध्यानपरायणः ॥ सर्व्वशेषं ततो मेरुं सूत्रद्बयसमन्वितम् । ग्रथयेत्तारयोगेण बध्नीयात् साधकोत्तमः । एवं निष्पाद्य देवेशि ! प्रतिष्ठाञ्च समाचरेत् ॥’ गौतमीये । ‘मुखे मुखञ्च संयोज्य पुच्छे पुच्छं नियोजयेत् । गोपुच्छसदृशी माला यद्बा सर्पाकृतिः शुभा । एवं निर्म्माय मालां वै शोधयेन्मुनिसत्तमः ॥ अश्वत्थपत्रनवकैः पद्माकारन्तु कारयेत् । तन्मध्ये स्थापयेन्मालां मातृकां मूलमुच्चरन् । क्षालयेत् पञ्चगव्येन सद्यीजातेन सज्जलैः ॥’ सद्योंजातस्तु । ‘ॐ सद्योजातं प्रपद्यामि सद्योजाताय वै नमः । भवेऽभवेऽनादिभवे भजस्व मां भवोद्भवाय नमः ॥ चन्दनागुरुकर्पूरैर्षामदेवेन घर्षयेत् ॥’ वामदेवमन्त्रस्तु । ॐ वामदेवाथ नमो ज्येष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो बलविकरणाब नमो बलप्रमथनाय नमः सर्व्वभूतदमनाय नमो मनोन्मनाय नमः । धूपयेत्तामघोरेण । अघोरमन्त्रस्तु । अघोरेभ्यो- ऽथ घोरेभ्यो घोरघोरतरेभ्यः सर्व्वतः सर्व्व- सर्व्वेभ्यो नमस्तेऽस्तु रुद्ररूपेभ्यः । लेपयेत्तत्- पुरुषेण तु । तत्पुरुषमन्त्रस्तु । ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचो- दयात् । ‘मन्त्रयेत् पञ्चमेनव प्रत्येकन्तु शतं शतम् । मेरुञ्च मन्त्रयेच्चैव मनुना च शतं शतम् ॥’ मन्त्रस्तु । ॐ ईशानः सर्व्वविद्यानामीश्वरः सर्व्वभूतानां ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिः शिरो मेऽस्तु सदाशिवोम् । प्रत्येकन्तु सकृत् सकृत् । इति वा । तथा च तत्रैव । ‘प्रत्येकं मन्त्रयेन्मन्त्री पञ्चमेन सकृत् सकृत् ।’ तथा च गौतमीये समुदायमालामधिकृत्य । ‘पञ्चमेनैव सूक्तेन शतान्यूनेन मन्त्रयेत् ।’ इति दर्शनान्मालायां वा शतजपः । तत्रावाह्य यजेद्देवं यथाविभवविस्तरैः । मालायाः प्राणप्रतिष्ठानन्तरं देवतां पूजयेत् ॥ तथा सनत्कुमारे । ‘संस्कृत्यैवं बुधो मालां तत्प्राणांस्तत्र स्थापयेत् । मूलमन्त्रेण तां मालां पूजयेद्द्विजसत्तम ! ॥’ वाराहीतन्त्रे । ‘माले माले महामाले सर्व्वतत्त्वस्वरूपिणि ! । चतुर्व्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ॥ मायाबीजादिकां कृत्वा रक्तपुष्पैः समर्च्चयेत् ॥’ इति शक्तिविषये ॥ विष्णुविपये तु रुद्रयामले । ‘वागभवञ्च तथा लक्ष्मीमक्षादिमालिकां ततः । ङेऽन्तां हृदयवर्णान्तां मन्त्रेणानेन पूजयेत् ॥ मन्त्रयेन्मूलमन्त्रेण क्रमेणोत्क्रमयोगतः । तथैव मातृकावर्णैर्मन्त्रयेत्तान्तु मन्त्रवित् ॥’ योगिनीतन्त्रे । ‘होमकर्म्म ततः कुर्य्याद्देवताभावसिद्धये । अष्टोत्तरशतं हुत्वा सम्पाताज्यं विनिःक्षिपेत् । होमकर्म्मण्यशक्तश्चेत् द्विगुणं जपमाचरेत् ॥ नान्यमन्त्रं जपेन्मन्त्री कम्पयेन्न विधूनयेत् । कम्पनात् सिद्धिहानिः स्याद्धूननं बहुदुःखदम् ॥ शब्दे जाते भवेद्रोगः करभ्रष्टा विनाशिका । छिन्ने सूत्रे भवेन्मृत्युस्तत्माद्यत्नपरो भवेत् ॥ जपान्ते कर्णदेशे वा उच्चदेशे तथा न्यसेत् । त्वं माले सर्व्वभूतानां सर्व्वसिद्धिप्रदा मता ॥ तेन सत्येन मे सिद्धिं देहि मातर्नमोऽस्तु ते । इत्युक्त्रा परिपूज्याथ गोपयेद्यत्नतो गृही ॥’ मालासंस्कारस्य नित्यतामाह रुद्रयामले । ‘अप्रतिष्ठितमालाभिर्मन्त्रं जपति यो नरः । सर्व्वं तद्विफलं विद्यात् क्रुद्धा भवति देवता ॥’ कामनाभेदे तु अङ्गुलिनियमः । गौतमीये । ‘तर्जन्यङ्गुष्ठयोगेन शत्रूच्चाटनमुत्तमम् । अङ्गुष्ठमध्यमायोगात् मन्त्रसिद्धिः सुनिश्चिता ॥ अङ्गुष्ठानामिकायोगादुच्चाटोत्सादने मते । ज्येष्ठाकनिष्ठायोगेन शत्रूणां नाशनं मतम् ॥’ वैशम्पायनसंहितायाम् । ‘अङ्गुष्ठमध्यमाभ्याञ्च चालयेन्मध्यमध्यतः । तर्जन्यां न स्पृशेदेनां मुक्तिदो गणनक्रमः ॥ जीर्णे सूत्रे पुनः सूत्रं ग्रथयित्वा शतं जपेत् । प्रमादात् पतिता हस्तात् शतमष्टोत्तरं जपेत् ॥ जपेन्निषिद्धसंस्पर्शे क्षालयित्वा यथोदितम् । छिन्नेऽप्यष्टोत्तरशतजपः कार्य्यः । करभ्रष्ट- च्छिन्नयोस्तुल्यत्वात् ॥ * ॥
प्रकारान्तरं आगम- कल्पद्रुमे । ‘भूतशुद्ध्यादिकां पूजां समाप्य तत्र पूजयेत् । गणेशसूर्य्यविष्ण्वीशान् दुर्गामावाह्य मन्त्रवित् ॥ पञ्चगव्ये ततः क्षिप्त्वा ह्सौर्मन्त्रेण मन्त्रवित् । तस्मादुत्तोल्य तां मालां स्वर्णपात्रे विधाय च ॥ पयोदधिघृतक्षौद्रशर्कराद्यैरनुक्रमात् । तोयधूपान्तरैः कृत्वा पञ्चामृतविधिं बुधः ॥ क्रमादत्रैव संस्थाप्य स्थापयेच्छीतले जले ॥ ततश्चन्दनसौगन्धिकस्तूरीकुङ्कुमादिभिः । तामालिप्य हसौर्मन्त्रमष्टोत्तरशतं जपेत् ॥ तस्यां नवग्रहांश्चैव दिक्पालांश्च प्रपूजयेत् । ततः संपूज्य च गुरुं गृह्णीयान्मालिकां शुभाम् ॥ अक्षमालाञ्च मुद्राञ्च गुरोरपि न दर्शयेत् । भूतराक्षसवेतालाः सिद्धगन्धर्व्वचारणाः । हरन्ति प्रकटं यस्मात्तस्माद्गुप्तं समाचरेत् ॥’ इति अक्षमाला । इति तन्त्रसारः ॥ अपि च । ‘विद्याधराप्सरोयक्षा विबुधासुरराक्षसाः । भूतानि किन्नराः सिद्धाः प्रेताश्च चारणादयः ॥ हरन्ति जपफलान्येते यानि तानि च नारद ! । अतूष्णीं चेद्वहिर्जानु चार्द्रवासादिभिर्जपेत् ॥ वृन्दाटवीन्धनमयी तुलसीकाष्ठसम्भवा । हस्ताङ्गुलिमयी हैमी दर्भग्रन्थिमयी तथा ॥ भद्राक्षेन्द्राक्षरुद्राक्षपद्मबीजभवाप्यथ । धात्रीपुत्त्रजीवफलैर्माला या परिकीर्त्तिता ॥ मुक्तामणिमयी रौप्या स्फाटिकी वैद्रुमी तथा । जपकर्म्मसु सर्व्वेषु चाक्षमाला प्रकीर्त्तिता ॥ * ॥
कृष्णमन्त्रजपे माला बृन्दारण्यसमुद्भवा । नान्या माला अनन्यानां हस्ताङ्गुलिमयीं विना ॥ हैमी मणिमयी माला प्रशस्ता कमलाजपे । सरस्वत्या मन्त्रजपे रौप्या मुक्ताविनिर्म्मिता ॥ प्रजापतिजपे माला पुत्त्रजीवसमुद्भवा । पुत्त्रकामनराणाञ्च सदा पुत्त्रप्रदा तु सा ॥ राममन्त्रजपे माला पद्मबीजसमुद्भवा । धात्रीफलमयी माला विष्णोः कामनया जपे ॥ रुद्राक्षेन्द्राक्षभद्राक्षवृक्षबीजसमुद्भवा । महेशानमन्त्रजपे त्वेता मालाः फलप्रदाः ॥ कुशग्रन्थिमयी शुद्धा गायत्त्री वेष्णवी जपे । स्फाटिकी सर्व्वदेवानामथवा तरणेर्जपे । श्रीहरेरङ्गुलिमयी जपे माला द्बिजन्मनाम् ॥’ इति पाद्मोत्तरखण्डे १०८ अध्यायः ॥ अपरञ्च । ‘जपादौ पूजयेन्मालां तोयैरभ्युक्ष्य यत्नतः । निधाय मण्डलस्यान्तः सव्यहस्तगताञ्च वा ॥ ॐ मां माले महामाये सर्व्वशक्तिस्वरूपिणि ! । चतुर्व्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ॥ पूजयित्वा ततो मालां गृहीत्वा दक्षिणे करे । मध्यमाया मध्यभागे वर्ज्जयित्वा तु तर्ज्जनीम् ॥ अनामिकाकनिष्ठाभ्यां युताया नम्रभावतः । स्थापयित्वा तत्र मालामङ्गुष्ठाग्रेण तद्गतम् ॥ प्रत्येकं बीजमादाय जपं कुर्य्यात्तु भैरव ! । प्रतिवारं पठेन्मन्त्रं शनैरोष्ठं न चालयेत् ॥ मालाबीजन्तु जप्तव्यं स्पृशेन्न हि परस्परम् । पूर्ब्बजापप्रयुक्तेनैवाङ्गुष्ठाग्रेण भैरव ! ॥ पूर्ब्बबीजं जपन् यस्तु परबीजन्तु संस्पृशेत् । अङ्गुष्ठेन भवेत्तस्य निष्फलस्तस्य तज्जपः ॥ मालां स्वहृदयासन्ने धृत्वा दक्षिणपाणिना । देवीं विचिन्तयन् जप्यं कुर्य्याद्वामेन न स्पृशेत् ॥ स्फाटिकेन्द्राक्षरुद्राक्षैः पुत्त्रजीवसमुद्भवैः । सुवर्णमणिभिः सम्यक् प्रबालैरथवाब्जकैः ॥ अक्षमाला तु कर्त्तव्या देवी प्रीतिकरा परा । जपेदुपांशु सततं कुशग्रन्थ्या तु पाणिना ॥ नानाबीजेषु सर्व्वेषु रुद्राक्षो मत्प्रियात्प्रियः । रुद्रप्रीतिकरो यस्मात्तस्माद्रुद्राक्षको बली ॥ प्रबालैरथवा कुर्य्यादष्टाविंशति बीजकैः । पञ्चपञ्चशता वापि न न्यूनैर्नाधिकैश्च वा ॥ रुद्राक्षैर्यदि जप्येत इन्द्राक्षैः स्फाटिकैस्तथा । नान्यं मध्ये प्रयोक्तव्यं पुत्त्रजीवादिकञ्च यत् ॥ यदन्यत्तु प्रयुज्येत मालायां जपकर्म्मणि । तस्य कामञ्च मोक्षञ्च न ददाति प्रियङ्करी ॥ जन्मान्तरे जायते स वेदवेदाङ्गपारगः । मित्रीभावं तदा याति चाण्डालैः पापकर्म्मभिः ॥ एको मेरुस्तत्र देयः सर्व्वेभ्यः स्थूलसम्भवः । आद्यं मूलं ततस्तस्मात् न्यूनं न्यूनतरं तथा ॥ विन्यसेत् क्रमतस्तस्मात् सर्पाकारा हि सा यतः । ब्रह्मग्रन्थियुतं कुर्य्यात् प्रतिबीजं यथा स्थितम् ॥ अथवा ग्रन्थिरहितं दृढरज्जुसमन्वितम् । त्रिरावृत्त्याथ मध्येनैवार्द्धावृत्त्यान्तदेशतः ॥ ग्रन्थिः प्रदक्षिणावर्त्तः स ब्रह्मग्रन्थि संज्ञकः । नात्मना योजयेन्मालां नामन्त्रो योजयेद्बुधः ॥ दृढं सूत्रं नियुञ्जीत जपे त्रुठ्यति नो यथा । यथा हस्तान्न च्यवते जपतः स्रक् तथाचरेत् । हस्ताच्च्यतायां विघ्नः स्याच्छिन्नायां मरणं भवेत् । एवं यः कुरुते मालां जप्यं च मयकोदितम् । स प्राप्नोतीप्सितं कामं हीने स्यात्तु विपर्य्ययः ॥ अन्यत्रापि जपेन्मालां जप्यं देवमनोहरम् । ईदृशं साधकः कुर्य्यात् नान्यथा तु कदाचन ॥ यथाशक्ति जपं कुर्य्यात् संख्ययैव प्रयत्नतः । असंख्यातन्तु यज्जप्तं तत् सर्व्वं निष्फलं भवेत् । जप्त्वा मालां शिरोदेशेप्रांशुस्थानेऽथवा न्यसेत् ॥ इति कालिकापुराणे ५४ अध्यायः ॥ * ॥
* ॥
अथ मालादिधारणम् ततः कृष्णार्पिता माला धारयेत्तुलसीदलैः । पद्माक्षैस्तुलसीकाष्ठैः फलैर्धात्र्याश्च निर्म्मिता ॥ धारयेत्तुलसीकाष्ठभूषणानि च वैष्णवः । मस्तके कर्णयोर्बाह्वोः करयोश्च यथारुचि ॥ * ॥
अथ मालाधारणविधिः । स्कान्दे । संनिवेद्यैव हरये तुलसीकाष्ठसम्भवाम् । मालां पश्चात् स्वयं धत्ते स वै भागवतोत्तमः ॥ हरये नार्पयेद्यस्तु तुलसीकाष्ठसम्भवाम् । मालां धत्ते स्वयं मूढः स याति नरकं ध्रुवम् ॥ क्षालितां पञ्चगव्येन मूलमन्त्रेण मन्त्रिताम् । गायत्त्र्या चाष्टकृत्वो वै मन्त्रितां धूपयेच्च ताम् । विधिवत् परया भक्त्या सद्योजातेन पूजयेत् ॥ तुलसीकाष्ठसम्भूते माले कृष्णजनप्रिये । बिमर्म्मि त्वामहं कण्ठे कुरु मां कृष्णवल्लभम् ॥ यथा त्वं वल्लभा विष्णोर्नित्यं विष्णुजनप्रिया । तथा मां कुरु देवेशि ! नित्यं विष्णुजनप्रियम् ॥ दाने मा धातुरुद्दिष्टो लासि मां हरिवल्लभे ! । भक्तेभ्यश्च समस्तेभ्यस्तेन माला निगद्यसे ॥ एवं संप्रार्थ्य विधिवन्मालां कृष्णगलेऽर्पिताम् । धारयेद्वैष्णवो यो वै स गच्छेद्वैष्णवं पदम् ॥” * ॥
अथ मालाधारणनित्यता । तत्रैव स्कान्दे कार्त्तिकप्रसङ्गे । “धात्रीफलकृतां मालां कण्ठस्थां यो वहेंन्न हि । वैष्णवो न स विज्ञेयो विष्णुपूजारतो यदि ॥” गारुडे । “घारयन्ति न ये मालां हैतुकाः पापबुद्धयः । नरकान्न निवर्त्तन्ते दग्धाः कोपाग्निना हरेः ॥” अतएव स्कान्दे तत्रैव । “न जह्यात्तुलसीमालां धात्रीमालां विशेषतः । महापातकसंहन्त्रीं धर्म्मकामार्थदायिनीम् ॥ * ॥
अथ मालामाहात्म्यम् । अगस्त्यसंहितायाम् । “निर्म्माल्यतुलसीमालायुक्तो यश्चार्च्चयेद्धरिम् । यद्यंत् करोति तत् सर्व्वमनन्तफलदं भवेत् ॥ यः कुर्य्यात्तुलसीकाष्ठैरक्षमालास्वरूपिणीम् । कण्ठमालाञ्च यत्नेन कृतं तस्याक्षयं भवेत् ॥” नारदीये । “ये कण्ठलग्नतुलसीनलिनाक्षमाला ये वा ललाटफलके लसदूर्द्ध्वपुण्ड्राः । ये बाहुमूलपरिचिह्नितशङ्खचक्रा- स्ते वैष्णवा भुवनमाशु पवित्रयन्ति ॥” किञ्च । “भुजयुगमपि चिह्नैरङ्कितं यस्य विष्णोः परमपुरुषनाम्नां कीर्त्तनं यस्य वाचि । ऋजुतरमपि पुण्ड्रं मस्तके यस्य कण्ठे सरसिजमणिमाला यस्य तस्यास्मि दासः ॥” विष्णुधर्म्मोर्त्तरे श्रीभगवदुक्तौ । “तुलसीकाष्ठमालाञ्च कण्ठस्थां वहते तु यः । अप्यशौचोऽप्यनाचारो मामेवैति न संशयः ॥” स्कान्दे । “धात्रीफलकृता माला तुलसीकाष्ठसम्भवा । वृश्यते यस्य देहे तु स वै भागवतो नरः ॥ तुलसीदलजां मालां कण्ठस्थां वहते तु यः । विष्णूत्तीर्णां विशेषेण स नमस्यो दिवौकसाम् ॥ तुलसीदलजा माला धात्रीफलकृतापि वा । ददाति पापिनां मुक्तिं किं पुनर्विष्णुसेविनाम् ॥ तत्रैव कार्त्तिकप्रसङ्गे । यः पुनस्तुलसीमालां कृत्वा कण्ठे जनार्द्दनम् । पूजयेत् पुण्यमाप्नोति प्रतिपुष्पं गवायुतम् ॥ अयुतसंख्यगोदानफलमित्यर्थः । यावल्लुठति कण्ठस्था धात्रीमाला नरस्य हि । तावत्तस्य शरीरे तु प्रीत्या लुठति केशवः ॥ स्पृशेच्च यानि लोमानि धात्रीमाला कलौ नृणाम् । तावद्वर्षसहस्राणि वसते केशवालये ॥ यावद्दिनानि वहते धात्रीमालां कलौ नरः । तावद्युगसहस्राणि वैकुण्ठे वसतिर्भवेत् ॥ मालायुग्मञ्च यो नित्यं धात्रीतुलसिसम्भवम् । वहते कण्ठदेशे च कल्पकोटिं दिवं वसेत् ॥” तुलसिसम्भवमिति ह्रस्वश्छान्दसः । गारुडे च मार्कण्डेयोक्तौ । “तुलसीदलजां मालां कृष्णोत्तीर्णां वहेत्तु यः । पत्रे पत्रेऽश्वमेधानां दशानां लभते फलम् ॥ * ॥
तुलसीकाष्ठसम्भूतां यो मालां वहते नरः । फलं यच्छति दैत्यारिः प्रत्यहं द्वारकोद्भवम् ॥ निवेद्य केशवे मालां तुलसीकाष्ठसम्भवाम् । वहते यो नरो भक्त्या तस्य वै नास्ति पातकम् । सदा प्रीतमनास्तस्य कृष्णो देवकिनन्दनः ॥ तुलसीकाष्ठसम्भूतां यो मालां वहते नरः । प्रायश्चित्तं न तस्यास्ति नाशौचं तस्य विग्रहे । तुलसीकाष्ठसम्भूतां यो मालां वहते नरः । तुलसोकाष्ठसम्भूतं शिरसो बहुभूषणम् । बाह्वोः करे च मर्त्यस्य देहे तस्य सदा हरिः ॥ तुलसीकाष्ठमालाभिर्भूषितः पुण्यमाचरेत् । पितॄणां देवतानाञ्च कृतं कोटिगुणं कलौ ॥ तुलसीकाष्ठमालान्तु प्रेतराजस्य दूतकाः । दृष्ट्वा नश्यन्ति दूरेण वातोद्धूतं यथादलम् ॥ तुलसीकाष्ठमालाभिर्भूषितो भ्रमते यदि । दुःस्वप्नं दुर्निमित्तञ्च न भयं शस्त्रजं क्वचित् ॥” गौतमीये पुरश्चरणप्रसङ्गे । “तथामलकसम्भूतैस्तुलसीकाष्ठनिर्म्मितैः । इत्यादि ॥ * ॥
तत्रैव । पुण्डरीकभवा माला गोपालमनुसिद्धिदा । आमलकीभवा माला सर्व्वसिद्धिप्रदा मता । तुलसीसम्भवा या तु मोक्षं वितनुतेऽचिरात् ॥ इति हरिभक्तिविलासः ॥ * ॥
* ॥
अथ रुद्राक्षमालाधारणफलादि । लिङ्गपुराणे । विना भस्मत्रिपुण्ड्रेण विना रुद्राक्षमालबा । पूजितोऽपि महादेवो न स्यात्तस्य फलप्रदः ॥ संवत्सरप्रदीपे । त्रिपुरस्य वधे काले रुद्रस्याक्ष्णोऽपतंस्तु ये । अश्रुणो बिन्दवस्ते तु रुद्राक्षा अभवन् भुवि ॥ यद्यप्येकादिचतुर्द्दशमुखरुद्राक्षेषु मन्त्रफल- विशेषाः सन्ति तथापि सुलभत्वात् पञ्चवक्त्रस्य फलमन्त्रावभिधीयेते । यथा, स्कान्दे । “पञ्चवक्त्रः स्वयं रुद्रः कालाग्निर्नाम नामतः । अगम्यागमनाच्चैव अभक्षस्य च भक्षणात् । मुच्यते सर्व्वपापेभ्यः पञ्चवक्त्रस्य धारणात् ॥” इति तिथ्यादितत्त्वम् ॥