शब्दकल्पद्रुमः
मालिः || पुं, सुकेशराक्षसपुत्त्रः । यथा, —
“ग्रामणीर्नाम गन्धर्व्वो विश्वावसुसमप्रभः । तस्य देववती नाम द्बितीया श्रीरिवात्मजा ॥ त्रिषु लोकेषु विख्याता रूपयौवनशालिनी । तां सुकेशाय धर्म्मात्मा ददौ रक्षःश्रियं यथा ॥ वरदानकृतैश्वर्य्यं सा तं प्राप्य पतिं प्रियम् । आसीद्देववती तुष्टा धनं प्राप्येव निर्द्धनः ॥ स तया सह सन्तुष्टो रराज रजनीचरः । ततः काले सुकेशस्तु जनयामास राघव ! ॥ त्रीन् पुत्त्रान् जनयामास त्रेताग्निसमविग्र- हान् । माल्यवन्तं सुमालिञ्च मालिञ्च बलिनांवरम् ॥” इति रामायणे उत्तरकाण्डे ५ सर्गः ॥