संस्कृत-शब्दकोशः

मालि मालिका

मालिक

वाचस्पत्यम्

मालिक ||‍ पुस्त्री० माला तन्निर्माणं शिल्पमस्य ठन । १ माला- कारे जातिभेदे अमरः २ पक्षिभेदे पुंस्त्री० मेदि० स्त्रियां ङीष् । ३ रञ्जके शब्दर० । ४ माल्यकारके त्रि० ।


शब्दकल्पद्रुमः

मालिकः || पुं, (मालास्य पण्यम् । माला + “तदस्य पण्यम् ।” ४ । ४ । ५१ । इति ठक् । यद्बा, मालाग्रथनं शिल्पमस्येति । “शिल्पम् ।” ४ । ४ । ५५ । इति ठक् ।)
मालाकारः । इत्य- मरः । २ । १० । ५ ॥ (यथा, राजतरङ्गिण्याम् । ६ । १९ । “निदाघे पुष्पताम्बूलीपर्णाद्यत्रातिशीतले । न्यस्यद्भिर्मालिकैर्दत्तात् सा जीवेद्भाटकादिति ॥”)
पक्षिभेदः । इति मेदिनी । के, १३९ ॥ रञ्जकः । इति शब्दरत्नावली ॥



Correction: