वाचस्पत्यम्
मालिन् || पु० माला शिल्पमस्त्यस्य इनि । १ मालाकारे २ माल्यवति त्रि० ३ मालाकारपन्त्र्यां ४ पञ्चदशाक्षरपादके, “ननमयययुतेयं मालिनी भोगिलोकैः” वृ० र० उक्ते ५ छन्दोभेदे । ६ गौर्य्याम् ७ चम्पानगर्य्यां ८ मन्दाकिन्यां कण्वाश्रमान्तिकस्थे ९ नदीभेदे १० मातृकाभेदे च स्त्री मेदि० ङीप् । ११ अग्निशिखावृक्षे दुरालाभायां स्त्री शब्दच० ङीप् ।
शब्दकल्पद्रुमः
माली || [न्] पुं, (माला पण्यत्वेनास्त्यस्य । माला + “ब्रीह्यादिभ्यश्च ।” ५ । २ । ११६ । इति इनिः ।)
मालाकारः । इति मालिनीशब्ददर्शनात् ॥ सुकेशराक्षसपुत्त्रः । यथा, —
“सुकेशपुत्त्रैर्भगवन् ! पितामहवरोद्धतैः । अहं विष्णुरहं रुद्रो ब्रह्माहं देवराडहम् ॥ अहं यमश्च वरुणश्चन्द्रोऽहं रविरप्यहम् । इति माली सुमाली च माल्यवांश्चैव राक्षसः । बाधन्ते समरोद्धर्षा ये च तेषां पुरःसराः ॥” इति रामायणे उत्तरकाण्डे ६ सर्गः ॥ (अस्थिमाला अस्त्यस्येतीनिः । महादेवः । यथा, महाभारते । १३ । १७ । ६० । “व्यालरूपो गुहावासी गुहो माली तरङ्गवित् ।” माला अस्त्यस्येतीनिः । मालायुक्ते, त्रि । यथा, रामायणे । २ । ५६ । ६ । “आदीप्तानिव वैदेहि ! सर्व्वतः पुष्पितान्नगान् । स्वैः पुष्पैः किंशुकान् पश्य मालिनः शिशिरा- त्यये ॥”)