संस्कृत-शब्दकोशः

माशब्दिक माषक

माष

वाचस्पत्यम्

माष ||‍ पु० मप—संज्ञायां कर्त्तरि घञ् । (माषकलाइ) व्रीहिभेदे “दशार्द्धगुञ्जं प्रबदन्ति माषम्” इत्युक्ते “गुञ्जाभिर्दशभिर्माष इत्युक्ते च २ परिमाणभेदे । स्वार्थे क । तत्रार्थे ।


शब्दकल्पद्रुमः

माषः || पुं, (माषस्य फलम् । माष + अण् । “लुप् च ।” ४ । ३ । १६६ । इत्यस्य “फलपाकशुषा- मुपसंख्यानम् ।” इति काशिकोक्तेरणो लुप् । यद्बा, मस + घञ् पृषोदरादित्वात् साधुः ।)
व्रीहिभेदः । माषकलाइ इति उरिद् इति च भाषा । तत्पर्य्यायः । कुरुविन्दः २ धान्य- वीरः ३ वृषाकरः ४ मांसलः ५ बलाढ्यः ६ पित्र्यः ७ पितृभोजनः ८ । अस्य गुणाः । स्निग्धत्वम् । बहुमलकरत्वम् । शोषणत्वम् । श्लेष्मकारित्वम् । अनुष्णवीर्य्यत्वम् । झटिति- रक्तपित्तप्रकोपणत्वम् । वातहरत्वम् । गुरु- त्वम् । बलकरत्वम् । रोचकत्वम् । स्वादुत्वम् । श्रमसुखवतां नराणां नित्यं सेवनीयत्वम् । इति राजनिर्घण्टः ॥ अपि च । “माषो गुरुः स्वादुपाकः स्निग्धो रुच्योऽनिला- पहः । उष्णः सन्तर्पणो बल्यः शुक्रलो वृंहणः परः ॥ भिन्नमूत्रमलस्तन्यमेदपित्तकफप्रदः । गुदकीलार्द्दितश्वासपंक्तिशूलानि नाशयेत् ॥” इति । कफपित्तकरा माषाः । इति च भावप्रकाशः ॥ अन्यच्च । “माषो बहुमलो वृष्यः स्निग्धोष्णो मघुरो गुरुः । वातनुद्वृंहणो बल्यो मेदोमांसकफप्रदः ॥” इति राजवल्लभः ॥ माषसूपेन मूलकभक्षणं निषिद्धं यथा, —
“मूलकं माषसूपेन मधुना च न भक्षयेत् ॥” इति च राजवल्लभः ॥ चतुर्द्दश्यां रविवारे च माषभक्षणनिषेधो यथा, चिररोगी च माषके । इति । “माषमामिषमांसञ्च मसूरं निम्बपत्रकम् । भक्षयेद्यो रवेर्वारे सप्तजन्मन्यपुत्त्रकः ॥” इति च तिथ्यादितत्त्वम् ॥ * ॥
परिमाणविशेषः । माषा इति भाषा । तत पर्य्यायः । माषकः २ मासः ३ । इत्यमर- भरतौ ॥ हेमः ४ धानकः ५ । स च मागध- माने सुश्रुतमते ५ गुञ्जापरिमाणम् । चरकमते ६ । ८ गुञ्जापरिमाणम् । कालिङ्गमाने सुश्रुत- मते ५ । ७ । ८ गुञ्जापरिमाणम् । इति भाव- प्रकाशः ॥ वैद्यकान्तरे १० गुञ्जापरिमाणम् । यथा, —
“गुञ्जाभिर्दशभिर्माषः शाणो माषचतुष्ठयम् ।” इति वैद्यकपरिभाषा ॥ (माषार्थे यथा, —
“द्बात्रिंशन्माषकैर्माषश्चरकस्य तु तैः पलम् । चरकार्द्धपलोन्मानं चरके दशरक्तिकैः । माषैः पलं चतुःषष्ट्या यद्भवेत्तत्तथेरितम् ॥” इति वैद्यकचक्रपाणिसंग्रहे ज्वराधिकारे ।)
ज्योतिःस्मृतिमते १२ गुञ्जापरिमाणम् । यथा, “पलं तु लौकिकैर्मानैः साष्टरत्तिद्विमाषकम् । तोलकत्रितयं ज्ञेयं ज्योतिर्ज्ञैः स्मृतिसम्मतम् ॥” इति तिथ्यादितत्त्वधृतवचनेन पलं अष्टरत्तिका- धिकमाषद्वयाधिकतोलकत्रयम् । एतेन माषक- परिमाणं द्वादशरत्तिकं भवति ॥ * ॥
मूर्खः । त्वग्दोषभेदः । इति मेदिनी षे, २१ ॥



Correction: