संस्कृत-शब्दकोशः

माष्य मासक

मांस

वाचस्पत्यम्

मास ||‍ पु० माएव अण् । १ चन्द्रे त्रिंशद्दिनात्मके २ काले च । स च सौरसावनचान्द्रनाक्षत्रभेदाच्चतुर्विधः । मासश्चन्द्र- स्वयम् अण् । ३ चान्द्रे मासे तु मुख्यः । मस्यते परिमी- यतेऽनेन मस परिमाणे करणे घञ् । परिमाणपञ्चगुञ्जा- त्मके भरतः । स्वार्थे क । मासक तत्रैवार्थे ।


शब्दकल्पद्रुमः

मासः || पुं, (मस् परिमाणे + भावे घञ् ।)
माष- परिमाणम् । इत्यमरटीकायां भरतः । माषा इति भाषा ॥ (मस्यते परिमीयते असावने- नवेति मस् + घञ् ।)
शुक्लकृष्णपक्षद्बयात्मकः कालः । स च पौषमाघादिद्बादशसंज्ञकः । इत्यमरः । १ । ४ । १२ ॥ माश्चन्द्रस्तस्यायं मासः ष्णः । चान्द्रमासस्येयं व्युत्पत्तिः । सौरादिषु तु मस्यते परिमीयतेऽनेनासौ वा मासः । मसिर्य ई परिमाणे घञ् । माः सान्तोऽपि । मास्तु मासोऽपि दृश्यते । इति हड्डः । इति भरतः ॥ * ॥
स्मृतिमतेऽपि पौषादिद्वादशसंज्ञकः । यथा, —
“चक्रवत् परिवर्त्तेत सूर्य्यः कालवशाद्यतः । अतः सांवत्सरं श्राद्धं कर्त्तव्यं मासचिह्नितम् ॥ मासचिह्नन्तु कर्त्तव्यं पौषमाघाद्यमेव हि । यतस्तत्र विधानेन स मासः परिकीर्त्तितः ॥” इति लघुहारीतः ॥ कार्त्तिकादिद्बादशसंज्ञकोऽपि । यथा, —
“अन्त्योपान्त्यौ त्रिभौ ज्ञेयौ फाल्गुनश्च त्रिभो मतः । शेषा मासा द्विभा ज्ञेयाः कृत्तिकादिव्यव- स्थया ॥” स च चैत्रादिद्बादशसंज्ञकश्च । यथा व्यक्तं ब्रह्मपुराणम् । “चैत्रे मासि जगद्ब्रह्मा ससर्ज्ज प्रथमेऽहनि । शुक्लपक्षे समग्रन्तु तदा सूर्य्योदये सति ॥ प्रवर्त्तयामास तदा कालस्य गणनामपि । ग्रहान्राशीनृतून् मासान् वत्सरान् वत्सराधि- पान् । इत्यनेन मासर्त्तुवत्सराणां चान्द्रत्वमुक्तम् । ब्रह्मसिद्धान्तेऽपि । “चैत्रसितादेरुदयाद्भानोर्व्वर्षर्त्तुमासयुगकल्पाः । सृष्ट्यादौ लङ्कायामिह प्रवृत्ता दिनैर्व्वत्स ॥” चैत्रसितादेश्चैत्रशुक्लप्रतिपदस्तामारभ्येत्यर्थः ॥ अपि च । “मीनादिस्थो रविर्येषामारम्भप्रथमक्षणे । भवेत्तेऽब्दे चान्द्रमासाश्चैत्राद्या द्वादश स्मृताः ॥” चान्द्रसावनसौरनाक्षत्रभेदेन स च चतुर्व्विधः । शुक्लप्रतिपदादिदर्शान्तश्चान्द्रः । तत्र चान्द्रो- ऽपि द्विविधः । शुक्लप्रतिपदादिदर्शान्तो मुख्यः । कृष्णप्रतिपदादिपौर्णमास्यन्तो गौणः । यत्- किञ्चित्त्रिंशत्तिथ्यात्मकश्चेति द्विविधो गौणः । त्रिंशदहोरात्रात्मकः सावनः । आदित्यैक- राशिभोगावच्छिन्नः सौरः । सप्तविंशतिनक्षत्रा- वच्छिन्नस्त्रिंशन्नाक्षत्रदिनात्मकश्च नाक्षत्रः । तथा च ब्रह्मसिद्धान्ते । “चान्द्रः शुक्लादिदर्शान्तः सावनस्त्रिंशता दिनैः । एकराशौ रविर्यावत् कालं मासः संभास्करः ॥ सर्व्वर्क्षपरिवर्त्तैस्तु नाक्षत्र इति चोच्यते ॥” सूर्य्यसिद्धान्ते । “नाडीषष्ट्या तु नाक्षत्रमहोरात्रं प्रचक्षते । तत्त्रिंशता भवेन्मासः सावनोऽर्कोदयैस्तथा ॥ ऐन्दवस्तिथिभिस्तद्वत् संक्रान्त्या सौर उच्यते ॥” तत्त्रिंशता नाक्षत्रदिनत्रिंशता मासो नाक्षत्र- मासः । तथा त्रिंशता ॥ * ॥
स्मार्त्तशूलपाणि- मते मुख्यचान्द्र एव मासपदशक्यः । जीमूत- वाहनमते सौर एव शक्यः । चान्द्रप्रमाणं प्रागुक्तम् । सौरप्रमाणन्तु । सौरास्तु माघादयो द्बादश एव श्रौताः । तथा च श्रुतिः । तप- स्तपस्यौ शैशिरावृतुः । मधुश्च माधवश्च वास- न्तिकावृतुः । शुक्रश्च शुचिश्च ग्रैष्मावृतुः । अथै- तदुदगयनं देवानां दिनम् । नभाश्च नभस्यश्च वार्षिकावृतुः । इषश्च ऊर्ज्जश्च शारदावृतुः । सहाश्च सहस्यश्च हैमन्तिकावृतुः । अथैत- द्दक्षिणायनं देवानां रात्रिरिति । अत्रायनस्य सौरत्वेन तद्घटकतपस्तपस्यादीनामपि सौर परतेति । अतो भूयसामनुरोधेन वैशाखादयः सौरवाचिनोऽवधार्य्यन्ते । इति मलमासतत्त्वम् ॥ अपि च । “मेषस्थित्या रवेर्मासो वैशाखोऽब्दमुखः स्मृतः ।” इति सङ्केतकौमुदी ॥ अथ कर्म्मविशेषे मासविशेषादिः । तत्र पिता- महः । “आब्दिके पितृकृत्ये च मासश्चान्द्रमसः स्मृतः । विवाहादौ स्मृतः सौरो यज्ञादौ सावनो मतः ॥” प्रथमादिपदं यात्राग्रहचारपरम् । यत् कर्म्म सूर्य्यभोग्यराश्युल्लेखेन यच्च विशिष्योदगयनादि विहितं तत्परञ्च अयनस्य सौरमासघटित- त्त्वात् । तच्च चूडोपनयनादि । द्बितीयादिपदं सत्रभृतिवृद्बिप्रायश्चित्तायुर्दायाशौचगर्भाधान- पुंसवनसीमन्तोन्नयननामकरणान्नप्राशननिष्क्र- मणचूडादिपरम् । तथा च विष्णुधर्म्मोत्तरे । “अध्वायनञ्च ग्रहचारकर्म्म सौरेण मासेन सदाध्यवस्येत् । सत्राण्युपास्यान्यथ सावनेन लौक्यञ्च यत् स्याद्व्यवहारकर्म्म ॥” अध्वायनं अध्वगमनं यात्रेति यावत् ॥ * ॥
अथ सौरादिमासविहितकर्म्माणि । “विवाहोत्सवयज्ञेषु सौरं मासं प्रशस्यते । पार्व्वणे त्वष्टकाश्राद्धे चान्द्रमिष्टं तथाब्दिके ॥” अत्र यज्ञपदमुदगयनादिविहितपशुयागाभिप्रायं पितामहोक्तन्तु विष्णुधर्म्मोत्तरोक्तसत्रपरम् । गर्गः । “आयुर्दायविभागश्च प्रायश्चित्तक्रिया तथा । सावनेन तु कर्त्तव्या मन्त्राणामप्युपासना ॥” सूर्य्यसिद्धान्ते । “सूतकादिपरिच्छेदो दिनमासाब्दपास्तथा । मध्यमग्रहभुक्तिश्च सावनेन प्रकीर्त्तिता ॥” मध्यमग्रहभुक्तिर्ज्योतिर्गणना प्रसिद्धा ॥ * ॥
नाक्षत्रमासप्रयोजनं विष्णुधर्म्मोत्तरे । “नक्षत्रसत्राण्ययनानि चेन्दो- र्म्मासेन कुर्य्याद्भगणात्मकेन ।” नक्षत्रसत्राणि माससाध्ययागविशेषरूपाणि याज्ञिकप्रसिद्धानि । इन्दोरयनानि सोमाय- नाख्यसत्राणि । इति समयप्रकाशः ॥ एवं जन्म- नक्षत्रे शनिभौमवारे फलं नाक्षत्रमासेन योग्य- त्वात् । यथा, मलमासतत्त्वे । “जन्मन्यृक्षे यदि स्यातां वारौ भौमशनैश्चरौ । स मासः कल्मषो नाम मनोदुःखप्रदायकः ॥” मलमासविवरणं मलमासशब्दे द्रष्टव्यम् ॥ * ॥
अथ मासकृत्यम् । “आषाढशुक्लैकादश्यां कुर्य्यात् स्वापं महोत्- सवम् । आषाढे च रथं कुर्य्यात् श्रावणे श्रवणाविधिम् ॥ भाद्रे च जन्मदिवसे उपवासपरो भवेत् । प्रसुप्तञ्च पारिवर्त्तमाश्विने मासि कारयेत् ॥ उत्थानं श्रीहरेः कुर्य्यादन्यथा विष्णुद्रोहकृत् । शुभे चैवाश्विने मासि महामायाञ्च पूजयेत् ॥ कार्त्तिके मासि यत् कृत्यं शृणु देवि वरानने ! । सप्तवर्त्त्याः प्रमाणेन दीपः स्याच्चतुरङ्गुलः ॥ पक्षान्ते च प्रकर्त्तव्या दीपमाला बलिः शुभा । मार्गशीर्षे सिते पक्षे षष्ठीञ्च सितवस्त्रकैः ॥ पूजयेज्जगदीशञ्च तूलवस्त्रैर्विशेषतः । पौषे पुण्याभिषेकञ्च वर्ज्जयेच्चन्दनं तथा ॥ संक्रान्त्यां माघमासे च साधिवासिततण्डुलान् । निवेद्य विष्णवे भक्त्या इमं मन्त्रमुदीरयेत् ॥ जीवनं सर्व्वभूतानां जनकस्त्वं जगद्गुरो ! । तन्मायालीनता प्राप्ता त्वयैव जनिता प्रभो ! ॥ कर्पूराकृतिद्रव्याणि घृताक्तानि निवेदयेत् । ब्राह्मणान् भोजयेद्भक्त्या देवदेवपुरःस्थितान् ॥ अभ्यर्च्च्य भगवद्भक्त्या द्विजांश्च भगवद्धिया । एकस्मिन् भोजिते भक्ते कोटिर्भवति भक्तितः ॥ विप्रभोजनमात्रेण व्यङ्गं साङ्गं भवेद्ध्रुवम् । पञ्चम्यां शुक्लपक्षे तु स्नापयित्वा च केशवम् ॥ पूजयेद्भगवद्भक्त्या चूतपल्लवसम्मितैः ॥ फल्गुचूर्णैश्च विविधैर्वासितैः पटवासितम् । काननं रमणीयञ्च प्रदीप्तदीपदीपितम् ॥ द्राक्षेक्षुरम्भाजम्बीरनागरङ्गकपूगकम् । नारिकेलञ्च धात्री च वंशतालहरीतकी ॥ अन्यैश्च वृक्षषण्डैश्च सर्व्वर्त्तकुसुमाचितम् । पुष्पैश्च विविधैश्चैव फलपुष्पसमन्वितम् ॥ वितानैः कुसुमोद्यानैर्वारिपूर्णघटैस्तथा । चूतशाखोपशाखाभिः शोभितं छत्रचामरैः ॥ विशेषतः कलियुगे दोलोत्सवो विधीयते । फाल्गुने च चतुर्द्दश्यामष्टमे यामसंज्ञके ॥ अथवा पौर्णमास्यान्तु प्रतिपत्सन्धिसम्मितौ । पूजयेद्बिधिवद्भक्त्या फल्गुचूर्णैश्चतुर्व्विधैः ॥ सितरक्तैर्गौरपीतैः कर्पूरादिविमिश्रितैः । हरिद्राक्षारयोगाच्च रङ्गरम्यैर्मनोहरैः ॥ अन्यैर्व्वा रङ्गरम्यैश्च प्रीणयेत् परमेश्वरम् ॥ एकादश्यां समारभ्य पञ्चम्यन्तं समापयेत् । पञ्चाहानि त्र्यहाणि स्युर्द्दोलोत्सवो विधीयते ॥ दक्षिणाभिमुखं कृष्णं दोलयानं सकृन्नराः । दृष्ट्वापराधनिचयैर्मुक्तास्ते नात्र संशयः ॥ निक्षिप्य जलमात्रे तु मासे माधवसंज्ञिते । सौवर्णपात्रे ताम्रे वा रौप्ये वा मृण्मयेऽपि वा ॥ तोयस्थं योऽर्च्चयेद्देवं शालग्रामसमुद्भवम् । प्रत्यहं मां महाभागे ! तस्य पुण्यं न गण्यते ॥ दमनारोपणं कृत्वा श्रीविष्णौ च समर्पयेत् । वैशाख्यां श्रावणे भाद्रे कर्त्तव्यञ्च तदर्पणम् ॥ वैशाखे च तृतीयायां जलमध्ये विशेषतः । अथवा मण्डपे कुर्य्यात् मण्डले वा बृहद्ध्वजे ॥ सुगन्धचन्दनेनाङ्गसुपुष्टाङ्गो दिने दिने । यथा प्रयत्नतः कार्य्यः कृशाङ्गो नैव पूजितः ॥ चन्दनागुरुकस्तूरीकुष्ठं कुङ्कुमरोचना । जटामांसी वचा चैव विष्णोर्गन्धाष्टकं तथा । एतैर्गन्धयुतैश्चापि हरेरङ्गानि लेपयेत् ॥ घृष्टञ्च तुलसीकाष्ठं कर्पूरागुरुयोगतः । अथवा केशरैर्योज्यं हरिचन्दनमुच्यते ॥ अस्मिन् काले कृष्णभक्त्या ये प्रपश्यन्ति मानवाः ॥ न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ॥ सुगन्धिमिश्रितैस्तोयैः स्नापयित्वा जगद्गुरुम् । अथवा पुष्पमध्ये च स्थापयेज्जगदीश्वरम् ॥ बृन्दावनं तत्र कृत्वा उपस्कृतफलानि च । विष्णुभक्तेन योग्येन भोजयेत्तदशेषतः ॥ नारिकेलफलं नीरं कोषञ्चोद्धृत्य दापयेत् । कण्टाफलञ्च पनसं कोषमुद्धृत्य दीयते ॥ यथा पचेत्तथा दद्याद्यथाशक्ति नियोगतः । दध्ना विमिश्रितञ्चान्नं घृतेनाप्लुत्य दापयेत् ॥ पाचितं पिष्टकं धातुरष्टादश घृतेन च । तिलैश्च तिलसंमिश्रैः फलं शुद्धञ्च दापयेत् ॥ यद्यदेवात्मनः श्रेयस्तत्तदीशाय कल्पयेत् । दत्त्वा नैवेद्यवस्त्रादीनाददीत कथञ्चन । त्यक्तव्यं विष्णुमुद्दिश्य तद्भक्तेभ्यो विशेषतः ॥ इति ते कथितं किञ्चित् समासेन महेश्वरि ! । गोप्तव्यञ्च प्रयत्नेन स्वयोनिरिव पार्व्वति ! ॥” इति पाद्मे पातालखण्डे १२ अध्यायः ॥


वाचस्पत्यम्

मांस ||‍ न० मन—स दीर्घश्च । “मांस भक्षयित्रासुत्र यस्य मांस- मिहाद्म्यहम् । इति मांसस्य मासत्वम्” मनूक्ते प्राणि- देहस्थशोणितपरिपाकजे धातुभेदे भावप्रकाशे मांसवर्गे तद्गुणाः उक्ता दृश्याः । पाकपचनशब्दं परे समासेऽस्या- न्त्यलोपः “मांस्पचन्या उखायाः” महाभाष्यम् ।


शब्दकल्पद्रुमः

मांसं || क्ली (मन्यते इति । मनज्ञाने + “मने- र्दीर्घश्च ।” उणा० ३ । ६४ । इति सः दीर्घश्च ।)
रक्तजधातुविशेषः । मास् इति भाषा ॥ स तु गर्भस्थबालकस्याष्टभिर्मासैर्भवति । इति सुख- बोधः ॥ भागवतमते चतुभिर्मासैर्भवति । तत्प- र्य्यायः । पिशितम् २ तरसम् ३ पललम् ४ क्रव्यम् ५ आमिषम् ६ पलम् ७ । इत्यमरः । २ । ६ । ६३ ॥ अस्रजम् ८ जाङ्गलम् ९ कीरम् १० । सर्व्वसांस- गुणाः । वातनाशित्वम् । वृष्यत्वम् । बल्य- त्वम् । रुच्यत्वम् । बृंहणत्वम् । देशस्थानसात्म्य- संस्थास्वभावैर्भूयो नानारूपत्वञ्च ॥ * ॥
प्रसह- भूशयानूपवारिजवारिचारिमांसगुणाः । गुरु- त्वम् । उष्णत्वम् । मधुरत्वम् । स्निग्धत्वम् । वातघ्नत्वम् । शुक्रवर्द्धनत्वञ्च ॥ * ॥
विष्किर- प्रतुदजाङ्गलमांसगुणाः । लघुत्वम् । शीतत्वम् । मधुरत्वम् । कषायत्वम् । नृणां हितत्वञ्च ॥ * ॥
अङ्गविशेषमांसगुणाः । ‘एकदेहेऽपि पूर्ब्बार्द्धं मृगाणां पक्षिणां परम् । सर्व्वेषाञ्च शिरस्कन्धप्लीहचर्म्मयकृद्गुदम् ॥ पादपुच्छान्तमस्तिष्कमुष्कक्रोडाश्च मेहनाः । धातवः शोणिताद्याश्च गुरवः स्युर्य्यथोत्तरम् ॥’ प्रशस्ताप्रशस्तमांसं यथा, — ‘वयस्थं निर्व्विषं सद्योहतं मांसं प्रशस्यते ॥ मृतञ्च व्याधितं व्युष्टं वृद्धं बालं विषैर्हतम् । अगोचरहतं व्याडसूदितं मांसमुत्सृजेत् ॥’ अष्टविधा मांसयोनिर्यथा । प्रसहाः १ प्रसह्य- भक्षणात् कुररश्येनादयः । भूशयाः २ विल- शायित्वात् नकुलगोधादयः । आनूपाः ३ खड्गमहिषवराहादयः । जलजाः ४ कुम्भीरा दयः । जलेचराः ५ हंसवकप्रभृतयः । जाङ्गलाः ६ हरिणच्छागादयः । विष्किराः ७ विकीर्णचरणात् तित्तिरमयूरकुक्कुटादयः । प्रतुदाः ८ प्रतुद्यचरणात् कपोतपारावतादयः । इति राजनिर्घण्टः ॥ * ॥
अपि च । ‘मांसं वातहरं सर्व्वं बृंहणं बलपुष्टिकृत् । प्रीणनं गुरु हृद्यञ्च मधुरं रसपाकयोः ॥’ * ॥
अथ तद्भेदाः । ‘मांसवर्गो द्बिधा ज्ञेयो जाङ्गलानूपभेदतः ॥’ तत्र जाङ्गलस्य लक्षणं गुणाश्च । ‘मांसवर्गोऽत्र जङ्घाला विलस्थाश्च गुहाशयाः । तथा पर्णमृगा ज्ञेया विष्किराः प्रतुदा अपि ॥ प्रसहा अथच ग्राम्या अष्टौ जाङ्गलजातयः । जाङ्गला मधुरा रूक्षास्तुवरा लघवस्तथा ॥ बल्यास्ते बृंहणा वृष्या दीपना दोषहारिणः । मूकतां मिन्मिनत्वञ्च गद्गदत्वार्द्दिते तथा ॥ वाधिर्य्यमरुचिं छर्द्दिप्रमेहमुखजान् गदान् । श्लीपदं गलगण्डञ्च नाशयन्त्यनिलामयान् ॥’ * ॥
अथानूपस्य लक्षणं गुणाश्च । ‘कूलेचराः प्लवाश्चापि कोषस्थाः पादिनस्तथा । मत्स्या एते समाख्याताः पञ्चधानूपजातयः ॥ आनूपा मधुराः स्निग्धा गुरवो वह्निसादनाः । श्लेष्मलाः पिच्छिलाश्चापि मांसपुष्टिप्रदा भृशम् ॥ तथाभिष्यन्दिनस्ते हि प्रायोऽपथ्यतमाः स्मृताः ॥’ * ॥
अथ जाङ्गलानां गणना विशिष्टा गुणाश्च । ‘हरिणैणकुरङ्गर्ष्यपृषतन्यङ्कुशम्बराः । राजीवोऽपि च मुण्डी चेत्याद्या जाङ्गल- संज्ञकाः ॥ हरिणस्ताम्रवर्णःः स्यादेणः कृष्णः प्रकीर्त्तितः । कुरङ्ग ईषत्ताम्रः स्याद्धरिणाकृतिको महान् ॥ ऋष्यो नीलाण्डको लोके सरोरु इति कीर्त्तितः । पृषतश्चन्द्रबिन्दुः स्याद्धरिणात् किञ्चिदल्पकः ॥ न्यङ्कुर्व्वहुविषाणोऽथ शम्बरो गवयो महान् । राजीवस्तु मृगो ज्ञेयो राजीभिः परितो वृतः ॥ यो मृगः शृङ्गहीनः स्यात् स मुण्डीति निगद्यते । जङ्घालाः प्रायशः सर्व्वे पित्तश्लेष्महराः स्मृताः । किञ्चिद्वातकराश्चापि लघवो बलवर्द्धनाः ॥’ अथ विलेशयानां गणना गुणाश्च । ‘गोधाशशभुजङ्गाखुशल्लक्याद्या विलेशयाः । विलेशया वातहरा मधुरा रसपाकयोः । वृंहणा बद्धविण्मूत्रा वीर्य्योष्णा अपि कीर्त्तिताः ॥ अथ गुहाशयानां गणना गुणाश्च । ‘सिंहव्याघ्रवृका ऋक्षतरक्षुद्बीपिनस्तथा । बभ्रुजम्बुकमार्ज्जारा इत्याद्यास्तु गुहाशयाः ॥ स्थूलपुच्छो रक्तनेत्रो बभ्रुभेदः सनाकुलः । गुहाशया वातहरा गुरूष्णमधुराश्च ते । स्निग्धा बल्या हिता नित्यं नेत्रगुह्यविका- रिणाम् ॥’ अथ पर्णमृगाणां गणना गुणाश्च । ‘वनौकोवृक्षमार्ज्जारवृक्षमर्कंटिकादयः । एते पर्णमृगाः प्रोक्ताः सुश्रुताद्यैर्महर्षिभिः ॥ स्मृताः पर्णमृगा वृष्याश्चक्षुष्याः शोषिणे हिताः । श्वासार्शःकाशशमनाः सृष्टमूत्रपुरीषकाः ॥’ अथ विष्किराणां गणना गुणाश्च । ‘वर्त्तकालावविकिरकपिञ्जलकतित्तिराः । कुलिङ्गकुक्कुटाद्याश्च विष्किराः समुदाहृताः ॥ विकीर्य्य भक्षयन्त्येते यस्मात् तस्माद्धि विष्किराः । कपिञ्जला इति प्राज्ञैः कथिता गौरतित्तिराः ॥ विष्किरा मधुराः शीताः कषायाः कटुपाकिनः । बल्या वृष्यास्त्रिदोषघ्नाः पथ्यास्ते लघवः स्मृताः ॥’ अथ प्रतुदानां गणना गुणाश्च । ‘कालकण्ठकहारीतकपोतशशपत्रकाः । सारिका खञ्जरीटश्च पिकाद्याः प्रतुदाः स्मृताः ॥ प्रतुद्य भक्षयन्त्येते तुण्डेन प्रतुदास्ततः । कपोतो धवलः पाण्डुः शतपत्रो बृहच्छुकः । प्रतुदा मधुराः पित्तकफघ्नास्तु वरा हिमाः । लघवो बद्धवर्च्चस्काः किञ्चिद्वातकराः स्मृताः ॥’ अथ प्रसहानां गणना गुणाश्च । ‘काको गृध्र उलूकश्च चिल्लश्च शशघातकः । चाषो भाषश्च कुरर इत्याद्याः प्रसहाः स्मृताः । प्रसहाः कीर्त्तिता एते प्रसह्याच्छिद्य भक्षणात् । प्रसहाः खलु वीर्य्योष्णाः षण्मासं भक्षयन्ति ये ॥ ते शोषभस्मकोन्मादैः शुक्रक्षीणा भवन्ति हि ॥’ शशघातकस्थाने शतघातकोऽपि पाठः । वाज इति लोके ॥ * ॥
अथ ग्राम्याणां गणना गुणाश्च । ‘छागमेषबृषाश्वाद्या ग्राम्याः प्रोक्ता महर्षिभिः । ग्राम्या वातहराः सर्व्वे दीपनाः कफपित्तलाः । मधुरा रसपाकाभ्यां बृंहणा बलवर्द्धनाः ॥’ अथ कूलेचराणां गणना गुणाश्च । ‘लुलापगण्डवाराहचमरीवारणादयः । एते कूलेचराः प्रोक्ता यतः कूले चरन्त्यमी ॥ कूलेचरा मरुत्पित्तहरा वृष्या बलावहाः । मधुराः शीतलाः स्निग्धा मूत्रलाः श्लेष्मवर्द्धनाः ॥’ अथ प्लवानां गणना गुणाश्च । ‘हंससारसकाचाक्षवकक्रौञ्चसरारिकाः । नन्दीमुखी सकादम्बा बलाकाद्याः प्लवाः स्मृताः । प्लवन्ते सलिले यस्मादेते तस्मात् प्लवाः स्मृताः ॥ स्थूला कठोरा वृत्ता च यस्याश्चञ्चूपरिस्थिता । गुटिका चञ्चुसदृशी ज्ञेया नन्दीमुखीति सा ॥ प्लवाः पित्तहराः स्निग्धा मधुरा गुरवो हिमाः । वातश्लेष्मप्रदाश्चापि बलशुक्रकराः सराः ॥’ अथ कोषस्थानां गणना गुणाञ्च । ‘शङ्खः शङ्खनखश्चापि शुक्तिशम्बूककर्कटाः । जीवा एवम्बिधाश्चान्ये कोषस्थाः परिकीर्त्तिताः ॥ कोषस्था मधुराः स्निग्धाः पित्तवातहरा हिमाः । बृंहणा बहुवर्च्चस्का वृष्याश्च बलवर्द्धनाः ॥’ अथ पादिनां गणना गुणाश्च । ‘कुम्भीरकूर्म्मनक्राश्च गोधामकरशङ्कराः । घण्टिकः शिशुमारश्चेत्यादयः पादिनः स्मृताः ॥ पादिनोऽपि च ये ते तु कोषस्थानां गुणैः समाः ॥’ इति भावप्रकाशः ॥ अन्यच्च । मांसं वातहरं वृष्यं वृं हणं बलवर्द्धनम् । प्रीणनं गुरु हृद्यञ्च मधुरं रसपाकयोः ॥’ तस्योत्पत्तिस्थानमष्टविधं यथा, — ‘प्रसह्य भक्षयन्त्यते प्रसहास्तेन कीर्त्तिताः । भूशया बिलशायित्वादानूपोऽनूपसंश्रयात् ॥ जले निवासाज्जलजा जले चर्य्याज्जलेचराः । स्थलजा जाङ्गलाः प्रोक्ता मृगा जङ्गलचारिणः ॥ विकीर्य्य विष्किराश्चैव प्रतुद्य प्रतुदास्तथा । योनिरष्टविधा ह्येषां मांसानां संप्रकीर्त्तिता ॥’ ‘प्रसहा भूशयानूपवारिजा वारिचारिणः । गुरूष्णमधुराः स्निग्धा वातघ्नाः शुक्रवर्द्धनाः ॥ लावाद्यो वैष्किरो वर्गः प्रतुदा जाङ्गला मृगाः । लघवः शीतमधुराः सकषाया हिता नृणाम् ॥’ अथ भांसयूषगुणाः । ‘रसो मांसस्य चक्षुष्यो वृं हणः प्राणवर्द्धनः । वृष्यो वातविकारघ्नः स्मृत्योजःस्वरवर्द्धनः । भग्नविश्लिष्टसन्धीनां क्षतानां व्रणिनां हितः ॥’ अथ तैलपक्वमांसगुणाः । ‘मांसं यत्तलसंसिद्ध्वं वीर्य्योष्णं पित्तलं कटु । अग्निसन्दीपनं रुच्यं दृष्टिनुत् पुष्टिनुद्गुरु ॥’ घृतपक्वमांसगुणाः । ‘मांसन्तु घृतसंसिद्धं दृष्टिदं पुष्टिनुल्लघु । प्रीणनं सर्व्वधातूनां विशेषान्मुखशोषिणाम् ॥’ परिशुष्कप्रदिग्धमांसयोर्लक्षणं गुणाश्च । मांसं बहुघृते भृष्टं सिक्त्रा चोष्णाम्बुना मुहुः । जीरकाद्यैः समायुक्तं परिशुष्कं तदुच्यते ॥ परिशुष्कं स्थिरं स्निग्धं हर्षणं प्रीणनं गुरु । पित्तघ्नं बलमेधाग्निमांसौजःशुक्रवर्द्धनम् ॥ तदेव घनतक्राठ्यं प्रदिग्धं सत्त्रिजातकम् । प्रदिग्धं बलमांसाग्निवर्द्बनं वातपित्तजित् ॥ शूलिकापक्वमांसगुणाः । ‘मांसन्तु शूलिकाप्रोतमङ्गारेण विपाचितम् । ज्ञेयं गुरुतरं वृष्यं दीप्ताग्नीनां सदा हितम् ॥’ वेशवारमांसस्य लक्षणं गुणाश्च । ‘निरस्थि पिशितं पिष्टं सिद्धं गुडघृतान्वितम् । कृष्णामरिचसंयुक्तं वेशवार इति स्मृतम् ॥ वेशवारो गुरुः स्निग्धो बलोपचयवर्द्धनः । द्रव्येण येन येनेह व्यञ्जनं मत्स्यमांसयोः । तस्य तस्य तयोश्चैतद्गुणदोषैर्व्विभावयेत् ॥’ एकत्र सर्व्वमांसभक्षणदोषो यथा, — ‘एकत्र सर्व्वमांसानि विरुध्यन्ते परस्परम् ॥’ मांसस्य गुरुत्वं यथा, — ‘अन्नादष्टगुणं पिष्टं पिष्टादष्टगुणं पयः । पयसोऽष्टगुणं मांसं मांसादष्टगुणं घृतम् । घृतादष्टगुणं तैलं मर्द्दनान्न च भक्षणात् ॥’ इति राजवल्लभः ॥ वर्ज्जनीयमांसानि यथा, — ‘क्रव्यादपक्षिदात्यूहशुकमांसानि वर्जयेत् । सारसैकशफान् हंसान् बलाकावकटिट्टिभान् ॥ कुररं जालपादञ्च खञ्जरीटमृगद्बिजान् । चासान् मात्स्यान् रक्तपादान् जग्ध्वा वै कामतो नरः ॥ बन्धुरं कामतो जग्ध्वा सोपवासस्त्र्यहं वसेत् ।’ इति गारुडे ९६ अध्यायः ॥ मांसभक्षणे दोषो यथा, — ‘लोभात् स्वभक्षणार्थाय जीविनं हन्ति यो नरः । मज्जाकुण्डे वसेत् सोऽपि तद्भोजी लक्षवर्षकम् ॥ ततो भवेत् स शशको मीनश्च सप्तजन्मसु । तृणादयश्च कर्म्मभ्यस्ततः शुद्धिं लभेद्ध्रुवम् ॥’ इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २७ अध्यायः ॥ अपि च । ‘बलाकं हंसदात्यूहं कलविङ्कं शुकं तथा । कुररञ्च चकोरञ्च जालपादञ्च कोकिलम् ॥ चाषञ्च खञ्जरीटञ्च श्येनं गृध्रं तथैव च । उलूकं चक्रवाकञ्च भाषं पारावतन्त्वपि ॥ कपोतं टिटिकञ्चैव ग्रामटिट्टिभमेव च । सिंहव्याघ्रञ्च मार्ज्जारं श्वानं शूकरमेव च ॥ शृगालं मर्कटञ्चैव गर्द्दभञ्च न भक्षयेत् । न भक्षयेत् सर्व्वमृगान् पक्षिणोऽन्यान् वने- चरान् ॥ जलेचरान् स्थलेचरान् प्राणिनश्चति धारणा ॥’ इति कूर्म्मपुराणे उपविभागे १६ अध्यायः ॥ अन्यच्च । ‘नाद्यादविधिना मांसं विधिज्ञो नापदि द्बिजः । जग्ध्वा ह्यविधिना मांसं प्रेत्य तैरद्यतेऽवशः ॥ न तादृशं भवत्येनो मृगहन्तुर्धनार्थिनः । यादृशं भवति प्रेत्य वृथामांसानि खादतः ॥ कुर्य्याद्घृतपशुं साङ्गं कुर्य्यात् पिष्टपशुं तथा । न त्वेव तु वृथा हन्तुं पशुमिच्छेत् कदाचन ॥ यावन्ति पशुरोमाणि तावत्कृत्वो ह मारणम् । वृथापशुघ्नः प्राप्नोति प्रेत्य जन्मनि जन्मनि ॥ नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते क्वचित् । न च प्राणिवधः स्वर्ग्यस्तस्मान्मांसं विवर्ज्जयेत् ॥ समुत्पत्तिञ्च मांसस्य वधबन्धौ च देहिनाम् । प्रसमीक्ष्य निवर्त्तेत सर्व्वमांसस्य भक्षणात् ॥ न भक्षयति यो मांसं विधिं हित्वा पिशाचवत् । स लोकप्रियतां याति व्याधिभिश्च न पीड्यते ॥ स्वमांसं परमांसेन यो वर्द्धयितुमिच्छति । अनभ्यर्च्च्य पितॄन् देवान् ततोऽन्यो नास्त्य- पुण्यकृत् ॥ वर्षे वर्षेऽश्वमेधेन यो यजेत शतं समाः । मांसानि च न खादेद्यस्तयोः पुण्यफलं समम् ॥ फलमूलाशनैर्मेध्यैर्मुन्यन्नानाञ्च भोजनैः । न तत्फलमवाप्नोति यन्मांसपरिवर्ज्जनात् ॥ मांसभक्षयितामुत्र यस्य मांसमिहाद्म्यहम् । एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥ यो यस्य मांसमश्नाति स तन्मांसाद उच्यते । मत्स्यादः सर्व्वमांसादस्तस्मान्मत्स्यान् विव- र्ज्जयेत् ॥’ इति मानवे ५ अध्यायः ॥ अन्यच्च । श्रीभागवतपञ्चमस्कन्धगद्यम् । ‘ये त्विह वै पुरुषाः पुरुषमेधेन यजन्ते । याश्च स्त्रियो नृपशून् खादन्ति तांश्च ताश्च ते पशवो इह निहता यमसदने यातयन्तो रक्षोगणाः । शौनिका इव सुधितिना वदायासृक पिबन्तीति ॥’ ब्रह्मपुराणम् । ‘पशोस्तु मार्य्यमाणस्य न मांसं ग्राहयेत् क्वचित् । पृष्ठमांसं गर्भशय्यां शुष्कमांसमथापि वा ॥’ महाभारतम् । ‘रोगार्त्तोऽभ्यर्थितो वापि यो मांसं नात्त्य- लोलुपः । फलमाप्नोत्ययत्नेन सोऽश्वमेधशतस्य च ॥’ नन्दिपुराणम् । ‘यश्चोपदेशं कुरुते परस्य तु महात्मनः । मांसस्य वर्ज्जनफलं सोऽमांसादफलं लभेत् ॥’ भविष्यपुराणम् । ‘आमिषं रक्तशाकञ्च यो भुङ्क्ते च रवेर्द्दिने । सप्तजन्म भवेत् कुष्ठी दरिद्रश्चोपजायते ॥’ विष्णुपुराणम् । चतुर्द्दश्यष्टमी चैव अमावास्याथ पूर्णिमा । पर्व्वाण्येतानि राजेन्द्र ! रविसंक्रान्तिरेव च ॥ स्त्रीतैलमांससंभोगी पर्व्वस्वेतेषु वै पुमान् । विण्मूत्रभोजनं नाम प्रयाति नरकं मृतः ॥’ इति तिथ्यादितत्त्वम् ॥ अथ मांसभक्षणविधिः । ‘श्राद्धे देवान् पितॄन् प्रार्च्च्य खादन् मांसं न दोषभाक् । वसेत् स नरके घोरे दिनानि पशुरोमभिः ॥ सम्मितानि दुराचारो यो हन्त्यविधिना पशून् । मांसं संत्यज्य संप्राप्य कामान् याति ततो हरिम् ॥’ इति गारुडे ९६ अध्यायः ॥ अपि च । ‘गोधा कूर्म्मः शशः खड्गी शल्यकश्चेति सत्तमाः । भक्ष्यान् पञ्चनखान्नित्यं मनुराह प्रजापतिः ॥ मत्स्यान् सशल्कान् भुञ्जीत मांसं रौरवमेव च । नवेद्य देवताभ्यश्च ब्राह्मणेभ्यश्च नान्यथा ॥ मायूरं तैत्तिरञ्चैव कपोतञ्च कपिञ्जलम् । वार्द्धीनसं वकं भक्ष्यं नीलहंसं पराजिताः ॥ सफरः सिंहतुण्डश्च तथा पाठीनरोहितौ । मत्स्यास्त्वेते समुद्दिष्टा भक्षणाय तपोधनैः ॥ प्रोक्षितं भक्षयेदेषां मांसञ्च द्बिजकाम्यया । यथाविधिनियुक्तश्च प्राणानामपि चात्यये ॥ भक्षयन्नपि मांसानि शेषभोजी न लिप्यते । औषधार्थमशक्तौ वा नियोगाद्यज्ञकारणात् ॥ आमन्त्रितस्तु यः श्राद्धे दैवे वा मांसमुत्सृजेत् । यायन्ति पशुरोमाणि तावतो नरकान् व्रजेत् ॥ इति कूर्म्मपुराणे उपविभागे १६ अध्यायः ॥ अपि च । मांसस्यातः प्रवक्ष्यामि विधिं भक्षणवर्ज्जने । प्रोक्षितं भक्षयेन्मांसं ब्राह्मणानाञ्च काम्यया ॥ यथाविधिनियुक्तश्चु प्राणानामेव चात्यये । प्राणस्थान्नमिदं सर्व्वं प्रजापतिरकल्पयत् ॥ स्थावरं जङ्गमञ्चैव सर्व्वं प्राणस्य भोजनम् । चराणामन्नमचरा दंष्ट्रिणामप्यदंष्ट्रिणः ॥ अहस्ताश्च सहस्तानां शूराणाञ्चैव भीरवः । नात्ता दुष्यत्यदन्नाद्यान् प्राणिनोऽहन्यहन्यपि ॥ धात्रैव सृष्टा ह्याद्याश्च प्राणिनोत्तार एव च । यज्ञाय जग्धिर्मांसस्येत्येष दैवो विधिः स्मृतः ॥ अतोऽन्यथा प्रवृत्तिस्तु राक्षसो विधिरुच्यते । क्रीत्वा स्वयं वाप्युत्पाद्य परोपकृतमेव वा । देवान् पितॄनर्च्चयित्वा खादन् मांसं न दुष्यति ॥ नियुक्तस्तु यथान्यायं यो मांसं नात्ति मानवः । स प्रेत्य पशुतां याति सम्भवानेकविंशतिम् ॥ न मांसभक्षणे दोषो न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ॥’ इति मानवे ५ अध्यायः ॥ * ॥
देवीपुराणम् । ‘अष्टमों समुपोष्यैव नवम्यामपरेऽहनि । मत्स्यमांसोपहारेण दद्यान्नैवेद्यमुत्तमम् । तेनैव विधिनान्नन्तु स्वयं भुञ्जीत नान्यथा ॥ याज्ञवल्क्यः । ‘प्राणात्यये तथा श्राद्धे प्रोक्षितं द्बिजकाम्यया । देवान् पितॄन् समभ्यर्च्च्य खादन् मांसं न दोषभाक् ॥’ यमः । ‘भक्षयेत् प्रोक्षितं मांसं सकृत् ब्राह्मणकाम्यया । दैवे नियुक्तः श्राद्धे वा नियमे च विवर्ज्जयेत् ॥’ इति तिथ्यादितत्त्वम् ॥ * ॥
भाक्तामिषं यथा, — ‘गोवर्ज्ज्यमामिषं क्षीरं फले जम्बीरमामिषम् । आमिषं रक्तशाकञ्च सर्व्वञ्च दग्धमामिषम् ॥’ गोवर्ज्ज्यमामिषं क्षीरमित्यत्र पत्राणामामिषं पर्णमिति च पाठः । इति कर्म्मलोचनः ॥ (अस्योत्पत्तिर्यथा, — ‘रसाद्रक्तं ततो मांसं मांसान् मेदः प्रजायते ॥’ इति सुश्रुते सूत्रस्थाने १४ अध्याये ॥)


शब्दकल्पद्रुमः

मांसः || पुं, (मन + सः । दीर्घश्च ।)
कालः । कीटः । इति शब्दरत्नावली ॥ (वर्णसङ्करजाति विशेषः । यथा, महाभारते । १३ । ४८ । २२ । “चतुरो भागधी सूते क्रूरान्मायोपजीविनः । मांसं स्वादुकरं क्षौद्रं सौगन्धमिति विश्रुतम् ॥”)



Correction: