संस्कृत-शब्दकोशः

मांस मांसकारि

मासक

शब्दकल्पद्रुमः

मासकः || पुं, माषकपरिमाणम् । यथा । गुञ्जाः पञ्चाद्यमासकः । इत्यमरः ॥ पञ्चगुञ्जाः कृष्णलाः आद्यः प्रथमो मासकः । दशगुञ्जापेक्षया आद्यत्वम् । शास्त्रीयत्वात् मुख्यो मास इत्यर्थो वा । मस्यते परिमीयतेऽनेन मासः मसिर्य ई परिमाणे परीणामे घञ् स्वार्थे कः मासोऽयं दन्त्यान्तः । मष हिंसार्थो मूर्द्धन्यान्तस्तस्माद्- घञ् तेन माषो मूर्द्धन्यान्त इति जिनेन्द्रप्रभृ- तयः । इत्यमरटीकायां भरतः ॥



Correction: