वाचस्पत्यम्
माहिष्य || पु० महिष्यां भवः ष्यञ् । क्षत्रेण वैश्यायामुत्पादिते सङ्करजातिभेदे अमरः ।
शब्दकल्पद्रुमः
माहिष्यः || पुं, (महिष्यां साघुरिति महिषी + ष्यञ् ।)
वर्णसङ्करजातिविशेषः । स च क्षत्त्रियाद्बैश्यायां जातः । इत्यमरः । २ । १० । ३ ॥ (यथा, याज्ञवल्क्यसंहितायाम् । १ । ९२ । “वैश्याशूद्र्योस्तु राजन्यान् माहिष्योग्रौ सुतौ स्मृतौ ॥”)