संस्कृत-शब्दकोशः

माहेन्द्री माहेयी

माहेय

वाचस्पत्यम्

माहेय ||‍ पु० मह्या अपत्यम मही + ढक् । १ मङ्गले २ नरकासुरे च स्त्रीगव्या स्त्री अमरः ङीप् ।


शब्दकल्पद्रुमः

माहेयः || त्रि (मही + ढक्)
मह्या अपत्यम् । इति मुग्धबोधव्याकरणम् ॥ (जनपदभेदे, पुं । यथा, महाभारते । ६ । ९ । ४८ । “कुट्टाः परान्ता माहेयाः कक्षाः सामुद्र- निष्कुटाः ॥” मङ्गलग्रहः । यथा, समयामृते । “कफपित्तसमुद्भूतां शिरःपीडां भयावहाम् । माहेयः कुरुते शोकं बुधस्यान्तर्दशां गतः ॥”)



Correction: