शब्दकल्पद्रुमः
माहेयी || स्त्री (मह्याः सुरभ्याः अपत्यमिति । मही + “नद्यादिभ्यो ढक् ।” ४ । २ । ९७ । इति ढक् । स्त्रियां ङीष् ।)
गौः । इत्यमरः । २ । ९ । ६० ॥ (यथा, महाभारते । ४ । १६ । १० । “सर्व्वश्वेतेव माहेथी वने जाता त्रिहायणी । उपातिष्ठत पाञ्चाली वासितेव महावृषम् ॥” अस्याः पर्य्यायो यथा, —
“सुरभिः सौरभेयी च माहेयी गौरुदाहृता ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)