शब्दकल्पद्रुमः
माहेशी || स्त्री (महेशस्येयम् । महेश + अण् + स्त्रियां ङीष् ।)
दुर्गा । यथा, —
“महादेवात् समुत्पन्ना महान्तैरीक्ष्यते यतः । माहेश्वर्य्या तनुर्यस्या माहेशी तेन सा स्मृता ॥” इति देवीपुराणे ४५ अध्यायः ॥ (महेशेन कृतमित्यण् । क्ली, व्याकरणविशेषः । “यान्युज्जहार माहेशाद् व्यासो व्याकरणा- र्णवात् । तानि किं पदरत्नानि सन्ति पाणिनिगोष्पदे ॥” इत्युद्भटः ॥)