वाचस्पत्यम्
मितद्रु || पु० मितं द्राति द्रवति वा कु नि० । समुद्रे हेमच० ।
शब्दकल्पद्रुमः
मितद्रुः || पुं, (मितं द्रवतीति । द्रु + “हरिमितयो- र्द्रुवः ।” उणा० १ । ३५ । इति कुः । स च डित् ।)
समुद्रः । इति हेमचन्द्रः । ४ । १३९ ॥ (परिमितगतौ, त्रि । यथा, ऋग्वेदे । ४ । ६ । ५ । परित्मना मितद्रुरेति होताग्निर्मन्द्रो मधुवचा ऋता वा ।” “मितद्रुः परिमितगतिः सन् ।” इति तद्भाष्ये सायणः ॥ मितमार्गे च । यथा, अत्रैव । १० । ६४ । ६ । “तेनो अर्वन्तोहवनश्रुतोहवं विश्वे शृण्वन्तु वाजिनो मितद्रवः ।” “मितद्रवो मितमार्गाः अध्वानं परिच्छिन्दन्तः ।” इति तद्भाष्ये सायणः ॥”)