शब्दकल्पद्रुमः
मित्रशीः || [स्] त्रि, (मित्रं शास्ति इति । शास् + “शास इदङ्हलोः ।” ६ । ४ । ३४ । इत्यत्र “क्वौ च शास इत्वं भवतीति वक्तव्यम् ।” इति काशिकोक्तेः क्विप् इत्वं ततो दीर्घश्च ।) सुहृच्छास्ता । मित्रं शास्ति यः । इति मुग्ध- बोधव्याकरणम् ॥