शब्दकल्पद्रुमः
मित्रसप्तमी || स्त्री (मित्राय मित्रजन्मने मित्रस्य वा सप्तमीति समासः ।)
मार्गशीर्षशुक्लसप्तमी । यथा, —
“अदितेः कश्यपाज्जज्ञे मित्रो नाम दिवाकरः । मार्गशीर्षस्य मासस्य शुक्ले पक्षे शुभे तिथौ ॥ सप्तम्यां तेन सा ख्याता लोकेऽस्मिन् मित्रसप्तमी । तत्रोपवासः कर्त्तव्यो भक्ष्याण्यथ फलानि वा ॥” इति श्रीगोविन्दानन्दाचार्य्यकृतसंवत्सरकौमुदी- धृतभविष्यपुराणवचनम् ॥