वाचस्पत्यम्
मिथस् || अव्य० मिथ—असुन् । १ रहसि, २ अन्योन्यस्मिन्नित्यर्थे अमरः ।
शब्दकल्पद्रुमः
मिथः || [स्] व्य, (मेथति इति मेथृसङ्गमे असुन् । पृषोदरादित्वात् ह्रस्वः ।)
अन्योन्यम् । रहः । इत्यमरः । ३ । ४ । २५५ ॥ (यथा, मनुः । १० । ५३ । “व्यवहारी मिथस्तेषां विवाहः सदृशैः सह ॥”)