वाचस्पत्यम्
मिथिला || स्त्री मिथि + अस्त्यर्थे लच् । स्वनामख्यातायां मिथि- राजधान्याम् ।
शब्दकल्पद्रुमः
मिथिला || स्त्री (मथ्यन्ते शत्रवो यस्याम् । मथ् + “मिथिलादयश्च” उणा० १ । ५८ । इति इलच् अकारस्येत्वं निपात्यते ।)
स्वनामख्यातनगरी । सा तु जनकराजपुरी । यथा । विदेहा मिथिला प्रोक्ता । इति हलायुधः ॥ (यथा, महाभारते । १ । ११३ । २८ । “ततः कोषं समादाय वाहनानि च भूरिशः । पाण्डुना मिथिलां गत्वा विदेहाः समरे जिताः ॥”)
अपिचास्य निरुक्त्यादिकं यथा, —
“गण्डकीतीरमारभ्य चम्पारण्यान्तकं शिवे ! । विदेहभूः समाख्याता तैरभुक्ताभिधः स तु ॥” इति शक्तिसङ्गमतन्त्रे ७ पटलः । तैरभुक्ता त्रिहुत इति ख्याता ॥ तन्नामकारणं यथा, —
“अराजकभयं नॄणां मन्यमाना महर्षयः । देहं ममन्थुः स्म निमेः कुमारः समजायत ॥ जन्मना जनकः सोऽभूद्वैदेहस्तु विदेहजः । मिथिलो मथनाज्जातो मिथिला येन निर्म्मिता ॥” इति श्रीमद्भागवते ९ स्कन्धे १३ अध्यायः ॥ अपि च । “निमेः पुत्त्रस्तु तत्रैव मिथिर्नाम महान् स्मृतः । प्रथमं भुजबलैर्येन तैरहूतस्य पार्श्वतः । निर्म्मितं स्वीयनाम्ना च मिथिलापुरमुत्तमम् ॥ पुरीजननसामर्थ्यात् जनकः स च कीर्त्तितः ॥” इति भविष्यपुराणम् ॥