वाचस्पत्यम्
मिथुन || न० मिथ—उनन् किच्च । १ स्त्रीपुंसयोर्युग्ये २ मेषादितस्तृतीये राशौ च ।
शब्दकल्पद्रुमः
मिथुनं || क्ली (मेथतीति । मिथ् + “क्षुधिपिशि मिथः कित् ।” उणा० ३ । ५५ । इति उनन् किद्भावाद्गुणाभावश्च ।)
स्त्रीपुंसयो- र्युग्मम् । तत्पर्य्यायः । द्बन्द्बम् २ । इत्यमरः । २ । ५ । ३८ ॥ (यथा, रामायणे । १ । २ । १५ । “मानिषाद ! प्रतिष्ठां त्वमगमः शाश्वतीः समाः । यत् क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥”)
युगलम् । इति तट्टीकायां रामाश्रमः ॥ मेषादि द्वादशराश्यन्तर्गततृतीयराशिः । तत्पर्य्यायः । जितुमः २ । तच्च द्बिपदं ग्राम्यं समसंज्ञकम् । अस्योदयस्य स्थूलमानं षट्पलाधिकपञ्चदण्डाः । इति ज्योतिषतत्त्वम् ॥ अस्याधिष्ठातृदेवता गदाधारिपुरुषः वीणाधारिस्त्री च । मृगशिरः- शेषार्द्धं आर्द्रासमुदायः पुनर्व्वसोस्त्रिपादं एतै- र्भवति । तत्तु शीर्षोदयं पश्चिमदिक्स्वामिवायु- प्रकृतिहरिद्बर्णं वनस्थितं शूद्रवर्णं स्निग्धं मध्यस्त्रीसङ्गं मध्यमसन्तानञ्च । तत्र जातो जनः मृगचक्षुः मिष्टभाषी कृशः वञ्चकः धर्म्ममतिः विनयभाजनञ्च भवति । इति बृहज्जातकादयः ॥ अथ मिथुनलग्नजातफलम् । “मिथुनोदयसंजातो मानी स्वजनवत्सलः । त्यागी भोगी धनी कामी दीर्घसूत्रोऽरि- मर्द्दनः ॥” इति कोष्ठीप्रदीपः ॥ * ॥
रात्रौ तल्लग्ननिरूपणं यथा, —
“दन्तसंख्यभवने झसाकृता- वन्तभे लसदनन्तमध्यगे । कोमलाङ्गि ! मिथुनोदयात् प्रिये ! कालखानलकलाः प्रियेऽचलन् ॥” ५ । ६ । इति कालिदासकृतरात्रिलग्ननिरूपणम् ॥