वाचस्पत्यम्
मिथ्योत्तर || न० कर्म० । व्यवहारे “मिथ्यैतत् नाभिजानामि तटा तत्र न सन्निधिः । अजातश्चास्मि तत्काले इति मिथ्या चतुर्विधम्” इत्युक्तप्रकारे, उत्तरभेदे, (“मिथ्यो- त्तरे पूर्ववादे”) इति स्मृतिः ।
शब्दकल्पद्रुमः
मिथ्योत्तरं || क्ली (मिथ्या असत्यमुत्तरं ।)
चतुर्धो- त्तरान्तर्गतोत्तरविशेषः । तस्य लक्षणम् । “अभियुक्तोऽभियोगस्य यदि कुर्य्यादपह्नवम् । मिथ्या तत्त विजानीयादुत्तरं व्यवहारतः ॥” इति नारदः ॥ तच्चतुर्व्विधम् । मिथ्यैतत् १ अहं नाभिजानामि २ मम तत्र न सन्निधिः ३ तत्कालेऽहमजातः ४ । यथा, व्यासनारदौ । “मिथ्यैतन्नाभिजानामि मम तत्र न सन्निधिः । अजातश्चास्मि तत्काले इति मिथ्या चतु- र्व्विधम् ॥” इति व्यवहारतत्त्वम् ॥