वाचस्पत्यम्
मिश्र || (स्र) योजने अद० च० उभ० सक० सेठ् । मिश्र(स्र) यति—ते अमिमिश्र(स्र)त् त ।
वाचस्पत्यम्
मिश्र || त्रि० मिश्र अच् । १ संयुते उत्तरपदस्थः २ श्रेष्ठार्थे । यथा आर्य्यमिश्राः । ३ गजजातिभेदे पु० हेमच० । ४ ज्योति- भोक्ते कृत्तिकाविशाखानक्षत्रगणे च पु० । संज्ञायां कन् । ५ इन्द्रवने जटा० ६ औषरलवणे राजनि० ।
शब्दकल्पद्रुमः
मिश्रं || क्ली (मिश्र + बाहुलकात् रक् ।)
चाणक्य- मूलकम् । इति राजनिर्घण्टः ॥ मिश्रितम् । यथा, —
“केचिदाहुः क्वचिद्देशे यावत्तु दिननाडिकाः । तावदेव त्वनध्यायो न तन्मिश्रे दिनान्तरे ॥” इति तिथ्यादितत्त्वम् ॥
शब्दकल्पद्रुमः
मिश्र || त् क युत्याम् । इति कविकल्पद्रुमः ॥ (चुरा०-पर०-सक०-सेट् ।)
तालव्यमध्योऽयम् । दन्त्यमध्य इति वर्णदेशनायाम् । युतिः संयो- जनम् । मिश्रयति मिश्रापयति घृतेनान्नं लोकः । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
मिश्रः || पुं, (मिश्र + बाहुलकात् रक् ।)
गजजाति- विशेषः । यथा, —
“भद्रो मन्दो मृगो मिश्रश्चतस्रो गजजातयः ।” इति हेमचन्द्रः । ४ । २८४ ॥ श्रेष्ठः । यथा । गौरवितास्त्वार्य्यमिश्राः । इति भूरिप्रयोगः ॥ संयुक्ते, त्रि । यथा, —
“करम्बः कवरो मिश्रः संपृक्तः खचितः समाः । इति हेमचन्द्रः । ६ । १०५ ॥ उग्रादिसप्तगणान्तर्गतसप्तमगणः । स तु कृत्तिका विशाखाभ्यां भवति । इति ज्योतिषतत्त्वम् ॥