वाचस्पत्यम्
मिष्ट || त्रि० मिष—क्त । १ सिक्ते २ स्पर्द्धिते च । ३ मधुररसे पु० ४ तद्वति त्नि० भावप्र० ।
शब्दकल्पद्रुमः
मिष्टं || त्रि सिक्तम् । स्पर्द्धितम् । इति मिष्धातोः क्तप्रत्ययेन निष्पन्नम् ॥
शब्दकल्पद्रुमः
मिष्टः || पुं, (मिष् + क्तः ।)
मधुररसः । यथा, “मिष्टः कटुश्च मधुरमम्लेऽम्लं पच्यते रसः । कटुतिक्तकषायाणां पाकः स्यात् प्रायशः कटुः ॥” इति भावप्रकाशः ॥ “नूतनसर्षपशाकं नवौदनं पिच्छिलानि च दधीनि । अल्पव्ययेन सुन्दरि ! ग्राम्यजनो मिष्ट- मश्नाति ॥” इति छन्दोमञ्जरी च ॥