वाचस्पत्यम्
मिहिका || स्त्री मिह—क्वुन् अत इत्त्वम् । नीहारे शब्दर० ।
शब्दकल्पद्रुमः
मिहिका || स्त्री (मेहति स्निह्यतीति । मिह + संज्ञायां क्वुन् टाप् अत इत्वम् ।)
नीहारः । इति शब्दरत्नावली ॥ (यथा, नैषधे । १९ । ३५ । “विशति युवतित्यागे रात्रीमुचं मिहिकारुचम् । दिनमणिमणिं तापेचित्तान्निजाच्च यियासति ॥”)