संस्कृत-शब्दकोशः

मिहिका मिहिराण

मिहिर

वाचस्पत्यम्

मिहिर is an alternate of महिर. म(मि)हिर ||‍ पु० मह—(मिह—)वा किरच् । १ सूर्य्ये त्रिका० । २ अर्कवृक्षे च ।


वाचस्पत्यम्

मिहिर ||‍ पु० मिह—किरच् । १ सूर्य्ये २ अर्कवृक्षे ३ वृद्धे मेदि० ४ मेघे हेमच० ५ वायौ, ६ चन्द्रे, विक्रमादित्यसभास्थे नवरत्नमध्यस्थे पण्डितभेदे च शब्दक० । तच्चिन्त्यम् । “धन्वन्तरिक्षपणकामरसिंहशङ्कुवेतालभट्टघटकर्परकालि- दासः । ख्यातो वराहमिहिरो नृपतेः सभायां रत्नानि वै वररुचिर्नवविक्रमस्य” ज्योतिर्विदाभरणवाक्ये वराहः मिहिराइवेत्येव तत्र समासे वराहमिहिर इत्येकः “वराहमिहिरात्मजेन पृथुयशसा” तत्पुत्रकृतषट्पञ्चा- शिकायामुक्तेः द्वित्वे वररुचिना सह दशसंख्यापत्तेश्च ।


शब्दकल्पद्रुमः

मिहिरः || पुं, (मेहयति सेचयति मेघजलेन भूमि- मिति । मिह + “इषिमदिमुदिखिदिच्छिदि- भिदिमन्दिचन्दितिमिमिहीति ।” उणा० १ । ५२ । इति किरच् ।)
सूर्य्यः । (यथा, मार्क- ण्डेये । १०७ । ७ । “भव तिमिरासवपानमदात् भवति विलोहितविग्रहात् । मिहिर ! विभासि यतः सुतरां त्रिभुवनभावनभानिकरैः ॥”)
अर्कवृक्षः । इत्यमरः । १ । ३ । २९ ॥ वृद्धः । इति मेदिनीशब्दरत्नावल्यौ । रे, २०४ ॥ मेघः । इति हेमचन्द्रः । २ । ११ ॥ वायुः । चन्द्रः । इति नानार्थरत्नमाला ॥ विक्रमादित्यभूपस्य नवरत्नान्तर्गतरत्नविशेषः । यथा, —
“धन्वन्तरिक्षपणकामरसिंहशङ्कु- वेतालभट्टघटकर्परकालिदासाः । ख्यातो वराहमिहिरो नृपतेः सभायां रत्नानि वै वररुचिर्नव विक्रमस्य ॥” इति नवरत्नम् ॥



Correction: