संस्कृत-शब्दकोशः

मीम मीमांसा

मीमांसक

वाचस्पत्यम्

मीमांसक ||‍ पु० मीमांसां वेत्त्यधीते वा वुन् । १ मीमांसा- शास्त्रन्ने २ तदध्येतरि च । भान—विचारे स्वार्थे सन् ण्वुल् । ३ सिद्धान्तकारके ।


शब्दकल्पद्रुमः

मीमांसकः || पुं, (मीमांसामधीते वेद वेति । मीमांसा + “क्रमादिभ्यो वुन् ।” ४ । २ । ६१ । इति वुन् ।)
मीमांसाशास्त्रवेत्ता । तत्पर्य्यायः । सिद्धान्ती २ । इति जटाधरः ॥ मीमांसा- शास्त्राध्येता च । (विषयोऽस्य यथा, —
“द्रव्यत्वं तमसोऽपि शोभनधियां मीमांसकानां मतम् ।” छायायास्तमसश्चापि सम्बन्धात्गुणकर्म्मणोः । द्रव्यत्वं केचिदिच्छन्ति मीमांसकमताश्रयाः ॥” इति वैद्यकराजबल्लभकृतवादार्थदर्पणे प्रथम- श्लोके ॥)
पूर्ब्बमीमांसासूत्रकर्त्ता जैमिनिः । वृत्तिकर्त्ता कुमारिलभट्टः । भाष्यकर्त्ता शवरस्वामी । प्रभाकरः कुमारिलभट्टस्य छात्रः । स एव गुरुत्वेन भण्यते । तन्मतं गुरुमतम् तच्छिष्याः प्राभाकराः । अतएव स्मार्त्तभट्टाचार्य्येण प्राभा- करैरभिहितमित्युक्तम् । उत्तरमीमांसासूत्र- कर्त्ता वेदव्यासः । तस्य भाष्यकर्त्ता शङ्करा- चार्य्यः । स च अद्वैतवादी । रामानुजः विशिष्टा- द्वैतवादी । माध्वः द्बैतवादी च ॥ (यथा, भक्तिरसामृतसिन्धौ । १ । १ । ३ । “मीमांसको बडवाग्नेः कठिनामपि कुण्ठयन्नसौ जिह्वाम् ॥”)



Correction: